SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir प्रणम्येति । मूर्धा प्रणम्य वसुधायाँ पतिताः। समाहिताः अनन्यमनस्काः ॥२० ॥ भ्रातुरन्तःपुरं प्रविवेशेति । तारां संमान्य, स्ववशीकरणार्थमिति भावः॥२१॥२२॥ प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः अगरुप्रभृतयः। अक्षतं जातरूपम्, अक्षततण्डुलं हरिद्रामिश्रम् । प्रियङ्क सूक्ष्मधान्यविशेषः । वाराही वराहचर्मविकृती । “ सुपां सुलुक ” इत्यादिना पूर्वसवर्णदीर्घः ॥ २३-२६ ॥ समालम्भनम् अनुलेपनविशेषः । “समा ।। ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् । प्रणम्य मूर्धा पतिता वसुधायां समाहिताः ॥२०॥ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् । भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः॥२१ ॥ प्रविश्य त्वभिनिष्कान्तं सुग्रीवं प्लवगेश्वरम् । अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २२ ॥ तस्य पाण्डुरमाजह्वश्छत्त्रं हेमपरिष्कृतम् । शुक्ले च वालव्यजने हेमदण्डे यशस्करे ॥२३॥ तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि । सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥ २४ ॥ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् । सुगन्धीनि च माल्यानि स्थल जान्यम्बुजानि च ॥ २५॥ चन्दनानि च दिव्यानि गन्धाश्च विविधान बहून् । अक्षतं जातरूपं च प्रियङ्गु मधुसर्पिपी। दधि चर्म च वैयाघ्र वाराही चाप्युपानहौ ॥ २६ ॥ समालम्भनमादाय रोचनां समनःशिलाम् । आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ २७॥ ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि । रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान् ॥२८॥ ततः कुशपरिस्तीर्ण समिद्धं जातवेदसम् । मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥२९॥ लम्भो विलेपनम्" इत्यमरः । रोचना गोरोचनाम् । समनःशिलां शैलधातुविशेषसंहितं तिलकसाधनं मनःशिला ॥ २७ ॥ ततस्ते वानरश्रेष्ट मित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वाक्यम् । यथाकालं विहितकालमनतिकम्प । यथाविधि यथाक्रमम् । द्विजर्पभान याजनार्थमाहूतान् । समिद्धं प्रविश्यति । प्रविश्य स्थित मिति शेषः ॥ २२ ॥ शतानीति । श्वेतमतुलेपनं करवः । प्रिया फलिनीपुष्पम् । “भियडर फलिनी फली" इत्यमरः । यद्वा" प्रियङ्कः सिद्धार्थसमे च" इति विश्वप्रकाशः । दधि चर्म चेति । समालम्भनमनुलेपनम् ॥२३-२७॥ ततस्त इत्यादि वसवो बासर्व यथेत्यन्तमेकं वाक्य । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy