SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir दिति । वानराणां राज्यमित्यन्वयः ॥ ४॥५॥ अतिनिपुणतया हनुमान प्रथमं संग्रहेण विज्ञाप्य तवति रामे पुनर्विशदमाइ-स्नात इति ॥६॥ गिरिगुहां किष्किन्धाम् । वानराणां स्वामिना संबन्धं कुरु, सुग्रीवं वानरराज कुर्वित्यर्थः ॥ ७-११॥ भाजनम् योग्यमित्यर्थः ॥ १२ ॥ अस्त्वभिषेकः, स्नातोऽयं विविधैर्गन्धैरोषधैश्च यथाविधि । अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥६॥ इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि । कुरुष्व स्वामिसंबन्धं वानरान् संप्रहर्षयन् ॥७॥ एवमुक्तो हनुमता राघवः परवीरहा। प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥८॥ चतुर्दश समाः सौम्य ग्राम वा यदि वा पुरम् । न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः॥९॥ सुसमृा गुहां रम्या सुग्रीवो वानरर्षभः । प्रविष्टो विधिवदीरः क्षिप्रं राज्येऽभि षिच्यताम् ॥ १०॥ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् । वृत्तज्ञो वृत्तसंपन्नमुदारवलविक्रमम् ॥ ११॥ इममप्यङ्गदंवीर यौवराज्येऽभिषेचय। ज्येष्ठस्यस सुतो ज्येष्ठः सदृशो विक्रमेण ते । अङ्गदोऽयमदीनात्मा यौव राज्यस्य भाजनम् ॥ १२॥ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञकाः ॥ १३॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् । अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥१४॥ सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्याशङ्कयाह-पूर्व इत्यादि। पूर्वः वर्षापेक्षया प्रथमः। वर्षाः वर्षर्तुः। "स्त्रियां प्रावृट् स्त्रियां भूनिवर्षाः" इत्यमरः। तत्र भवो वार्षिकः । "दौ द्वौ मार्गादिमासौ स्याहतुः" इति श्रावणभाद्रपदौ वर्षतुः । तदेकदेशत्वाच्छावणो वार्षिक इत्युच्यते । “वर्षाभ्य टक्” इति ठक्प्रत्ययः । वार्षिकसंज्ञकाश्चत्वारो मासा इति । आश्वयुजापाढाभ्यां चतुष्वमिति ज्ञेयम् । छत्रिन्यायात् । वर्षमुखत्वावर्षानन्तरकालत्वाच्च मृग महामात्राः वानरप्रधानाः ॥ १-५ ॥ स्नातः अभिषिक्तः । औषधैः अभिषेकद्रव्यैः ॥६॥ गिरिगुहाँ किष्किन्धाम् । स्वामिसम्बन्धं वानराणां स्वामिना सह सम्बन्धं कुरुष्व, सुग्रीवं वानरराजं कुर्वित्यर्थः ॥७-१२॥ अस्तु भवदुक्तप्रकारेणाभिषेकादिकम्, मत्प्रार्थितः त्वया सम्पादितः सीतान्वेषगरावण निरसनोद्योगोऽद्यैव कर्तव्य इति सुप्रीवाभिप्रायमाशङ्कयाह-पूर्वोयमित्यादिना । प्रवृत्ताः प्रवर्तितुमुपक्रान्ताः ॥ १३-१५ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy