SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir ॥२३॥ वा.रा.भ.तिशयो दर्शितः। मिथ्यावाक्यमधर्मकरम् इदमुभयकरमिति भावः ॥४॥ कुत इत्यादिना परदाराभिलाष एव नास्ति कुतस्तदभिगमनमित्युक्तम् । काल.टी.आ.को. त्रयेपि तदभाव इति विशेषयति-तवेति । मनुष्येन्द्रेति हेतुगर्भ सम्बोधनम् । तव परदाराभिलाषणमिदानीं नास्ति कदाचन ते तनाभूत् । हे राम ! एतत् । अभिलाषणं ते क्वचित्सुन्दरेष्वपि परदारेषु मनसा सङ्कल्पेनापि न विद्यते । अनेन भविष्यत्कालेपि नास्तीत्युक्तम् । तथेति समुच्चये । चोवधारणे ॥५॥ तव नास्ति मनुष्यन्द्र न चाभूत्ते कदाचन । मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ॥५॥ स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज । धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ॥६॥ सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज । त्वयि सत्यं च धर्मश्च त्वयि सर्व प्रतिष्ठितम् ॥ ७॥ तच्च सर्व महाबाहो शक्यं धतु जितेन्द्रियैः । तव वश्येन्द्रियत्वं च जानामि शुभदर्शन॥८॥ Kउक्तव्यसनद्वयाभावे बहून् हेतून् दर्शयति-स्वदारेत्यादिना । हे नृपात्मज ! त्वं नित्यमेव स्वदारनिरतः धर्मिष्ठश्च. अत एव सत्यसन्धः सत्यप्रतिज्ञः। तत्र निदर्शनं पितुनिर्देशकारकः॥६॥ उक्तानुवादपूर्वकं भर्तारं स्तौति-सत्यसन्धेति । महाभाग महाधर्मन् ! श्रीमन् निरवधिकैश्वर्य ! लक्ष्मणपूर्वज वैराग्ये लक्ष्मणादप्यधिक ! त्वयि सत्यं प्रतिष्ठितम् । धर्मश्च प्रतिष्ठितः अन्यत्सर्वमैश्वर्यवैराग्यादिकं च त्वयि प्रतिष्ठितं सुस्थिरम् ॥७॥तृतीयव्यसन सद्भावं वक्तुमुक्तव्यसनद्वयाभावं स्वानुभवसिद्धत्वेन द्रढयति-तच्चेति । हे महाबाहो ! जितेन्द्रियैः धर्तुं शक्यं तत्पूर्वोक्तं धर्मिष्ठत्वादिकं सर्वं तव वश्ये न्द्रियत्वं च जानामि । शुभदर्शन ! तत्सद्भावे तव दर्शनमेव प्रमाणम् “रूपमेवास्यैतन्महिमानं व्याचष्टे” इति श्रुतेः ॥८॥ अत एव तद्धेतुकं परदाराभिगमनं नास्तीत्याह-तवेति । हे मनुष्येन्द्र ! एतत् परदाराभिगमनं तव नास्ति, वर्तमान इति शेषः । ते तव नाभूत पूर्वमिति शेषः । कदाचिदपि भविष्यत्काल इत्यर्थः । किं बहुना, हे राम ! मनसि तथा तादृशप्रसङ्गः कचिच्च कचिदपिन विद्यतेभूतभविष्यद्वर्तमानकालेष्वपि तव परदाराभिगमनं नास्तीत्यर्थः ॥५॥ परदाराभिगमनमिथ्यावचनयोरभावे क्रमेण हेतुद्वयमाह-स्वदारनिरत इति । हे नृपात्मज ! त्वं धर्मिष्ठस्सन् नित्यं स्वदारनिरतोसि, अनेन पर दाराभिगमनराहित्ये हेतुरुक्तः । सत्यसन्धस्सन् पितृनिर्देशकारकोऽसि, अनेन मिथ्यावचनराहित्ये हेतुरुक्त इति द्रष्टव्यम् । अत एव त्वयि धर्मश्च सत्यं च सर्व प्रतिष्ठितम् ॥ ६॥ ७॥ अन्यैबोंडुमप्यशक्यमेतत्सर्व तवास्तीति जानामीत्याह-तञ्चेति । अशक्यमिति छेदः । अतो न तव व्यसनद्वयप्रसक्तिरित्यर्थः ॥८॥ ॥२३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy