SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भवेदिति प्रेमान्यतया तथोक्तवतीति भावः॥१॥ किं तदुक्तं तत्राह-अयं धर्म इति । महानयं धर्मः त्वयानुष्ठीयमानो मुनिधर्मः । सुसूक्ष्मेण विधिना मार्गेण विचारेण प्राप्यते, धर्मकामेरिति शेषः । सूक्ष्मविधिमेवाह निवृत्तेनेति । इह वने । कामजात् इच्छाकृताब्यसनानिवृत्तेन पुरुषेणायं धर्मः शक्यः सम्पाद्यः। व्यसनमिति जात्येकवचनम् ॥२॥ किं तब्यसनं तबाह-त्रीण्येवेति । अत्र लोके । उत अत्यर्थम् । कामजानि रागकृतानि त्रीण्येव व्यसनानि अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन तु शक्योऽयं व्यसनात कामजादिह ॥२॥त्रीण्येव व्यसना न्यत्र कामजानि भवन्त्युत । मिथ्यावाक्यं परमकं तस्माद् गुरुतरावुभौ । परदाराभिगमनं विना वैरं च रौद्रता ॥३॥ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव । कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ॥४॥ भवन्ति । कानि तानि त्रीणीत्यत्राह मिथ्यावाक्यमित्यादि । मिथ्यावाक्यं परमकम् प्रथममित्यर्थः, सर्वेभ्यो व्यसनेभ्यः श्रेष्ठमित्यर्थः । स्वार्थे कः । तस्मादपि व्यसनात गुरुतरावुभौ व्यसनविशेषौ । तावाह परदारेत्यादिना । परदाराभिगमनं परदाराभिमर्शनम्, वैरं विना रौद्रता हिंसकता चेति ॥३॥ एवं सामान्येन व्यसनरूपमुक्त्वा प्रकृते परिहार्यत्वेन वक्तव्यं व्यसनं दर्शयितुमितरपरिशेषमाह-मिथ्येत्यादिना । अत्र भूतभविष्यतोर्वर्तमानस्यान्तर्भावः। कुत इति परेषां सम्बन्धिनीनां स्त्रीणां धर्मनाशनमधर्मकरं च अभिलाषणमभिलाषः कुतः, असम्भावित इत्यर्थः । धर्मनाशनशब्देन गुरुतरशब्दोक्ता हृदयङ्गमया। स्निग्धया स्नेहप्रबुद्धया ॥१॥२॥ किं तत्कामजं व्यसनं कश्चाधर्मः ? याभ्यां निवर्तनीयोऽहमित्याकाङ्खायामाह-त्रीण्येवेति । परमकं परमव्यसन भूतम् ॥ ३ ॥ एवं व्यसनत्रयं निरूप्य प्रकृतेऽधर्मप्राप्तिपरिहाराय परिहार्य व्यसनं परिशेषयितुमाह-मिथ्यावाक्यमित्यादिना सार्धश्लोकचतुष्टयेन । हे राम ! कर्म नाशनं मिथ्यावाक्यं परेषां स्त्रीणामभिलाषणं च ते तब न भूतं न भविष्यति। कुतो वर्तमानकाल इति शेषः ॥ ४ ॥ टी-अथ "केवलनात्मकार्येण प्रवेष्टन्य वन मया । विप्रकारमपाकटुं राक्षसर्भवतामिमम्" इति मुनीनां राक्षसधप्रतिज्ञा कुर्वाणं भर्तारं प्रति सीता "अहिंसा परमो धर्मः " इति न्याय मनसि निधाय हिंसां निवर्तयितु लोकदृष्टान्तेन वक्तुमारभते-यस्तु धर्म इत्यादिना । महान् उत्कृष्टः यो धर्मः सुतीक्ष्णेन मुनिना विधिना शास्त्रोक्तप्रकारेण प्राप्यते अयं धर्मः । इह लोके कामजायसनानिवृतेन पुरुषेण त्वयेति वा शक्यः, आचरितुं शक्य इति योजना | अधर्म तु सुपामेणेति पाठे तु-महान् महात्मा यद्यपि भवान् तथापि सुखश्मेण विधिना यक्ष्ममार्गेण विचारणे सति अधर्म प्राप्यते । अपेश्वान्दसः श्यन् वा कर्तरि यम्बा छान्दसः । अधर्ममेष प्रामोति भवानित्यर्थः । अयमधर्मस्तु कामजायसनानिवृत्तेन वया परिहतं शक्य स्पर्षः ॥ २॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy