SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विकृष्टं विप्रकृष्टम् । अध्वानं पादैरागताः ॥ ४३ ॥ इदानीमित्यादि । मदनोत्कटाः उत्कटमदनाः ॥ ४४ ॥ ४५ ॥ विलपती विलपन्तीम् ॥ ४६ ॥ पितरं पितृशरीरम् ॥ ४७ ॥ तत इति । अपसव्यम् अप्रदक्षिणम् ॥ ४८ ॥ संस्कृत्येति । वालिनं वालिशरीरम् । उदकं कर्तुं जलतर्पणं कर्तुम् । ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् । आरोप्या शिरस्तस्य विललाप सुदुःखिता ॥ ३९ ॥ हा वानरमहाराज हा नाथ मम वत्सल । हा महार्ह महाबाहो हा मम प्रिय पश्य माम् । जनं न पश्यसीमं त्वंं कस्मा च्छोकाभिपीडितम् ॥ ४० ॥ प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद । अस्तार्कसमवर्ण च लक्ष्यते जीवतो यथा ॥४१॥ एष त्वां रामरूपेण कालः कर्षति वानर । येन स्म विधवाः सर्वाः कृता एकेषुणा वने ॥ ४२ ॥ इमास्तास्तव राजेन्द्र वानर्यो वल्लभाः सदा । पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे । तवेष्टा ननु नामैता भार्याश्चन्द्र निभाननाः ॥ ४३ ॥ इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् । एते हि सचिवा राजन तारप्रभृतयस्तव ॥ ४४ ॥ पुरवासी जनश्चायं परिवार्याऽऽसतेऽनघ । विसर्जयैतान् प्लवगान् यथोचितमरिन्दम । ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ ४५ ॥ एवं विलपतीं तारां पतिशोकपरिप्लुताम् । उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ ४६ ॥ सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् । चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ ४७ ॥ ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह । पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४८ ॥ संस्कृत्य वालिनं ते तु विधिपूर्व प्लवङ्गमाः । आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम् ॥ ४९ ॥ ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः । सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ ५० ॥ नदीं किष्किन्धासमीपवर्तिनीम् ॥ ४९ ॥ ततस्त इति । सुग्रीवतारासहिता इति । तारयाप्युदकदानं कुलाचारः ॥ ५० ॥ पुनस्ताराविलापमाह--तत इतेि ॥ ३९-४२॥ विदूरमित्यर्थः ॥ ४२ ॥ ४४ ॥ पयोचितं यथान "ततः क्रीडामहे सवनेषु मदनोत्कटाः" इत्यत्र For Private And Personal Use Only शेषः॥४६-४७॥ अपसम्यमप्रदक्षिणम् ।
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy