SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चा.रा.भू. ॥७४॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir प्रति वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः । आरोपयत आरोपयत्॥२८॥ आर्यस्य ज्येष्ठस्य । देहादूर्ध्वं कर्तव्यम् और्ध्वदेहिकम् उत्तरकिया। शिविकासमनन्तरम् आसन्दीसमीपे । अत्रेतिकरणं दृष्टव्यम् । इत्याज्ञापयदिति पूर्वेण संबन्धः ॥ २९ ॥ रामा० - माल्यैर्वस्त्रैश्च भूषितामिति पाठः ॥ २९ ॥ ३० ॥ ३१ ॥ राज्ञामिति । ऋद्धिविशेषाः ऋद्धिविशेषानुरूपाः । यादृशाः और्ध्वदेहिकक्रियाप्रकारा दृश्यन्ते आरोप्य शिबिकां चैव वालिनं गतजीवितम् । अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ २९ ॥ आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः । और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः ॥ ३० ॥ विश्राणयन्तो रत्नानि विविधानि बहून्यपि । अग्रतः प्लवगा यान्तु शिबिकासमनन्तरम् ॥ ३१ ॥ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः । तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् ॥ ३२ ॥ अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा । क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ ३३ ॥ ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः । चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ ३४ ॥ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः । अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ ३५ ॥ तासां रुदितशब्देन वानरीणां वनान्तरे । वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ ३६ ॥ पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते । चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ ३७ ॥ अवरोप्य ततः स्कन्धाच्छिबिकां वह नोचिताः । तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ ३८ ॥ तादृशमौर्ध्वदेहिकं क्षिप्रं प्राकुर्वन् ॥३२॥ रामानु० - राज्ञामिति । तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकमिति पाठः ॥ ३२ ॥ तारप्रभृतयो वानरा इति सम्यक् ॥ ३३ ॥ रामानु० - अङ्गदं परिगृह्याशु तारमभृतयस्तदा । क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः । इति पाठः ॥३३॥ प्रणिहिताः आप्ताः॥३४॥ रामानु० - प्रणिहिताः अत्यन्ताप्ता इत्यर्थः॥ ३४॥ ॥ ३५-३७ ॥ अवरोप्येति वहनोचिताः वाहकाः ॥ ३८-४२ ॥ आज्ञापयदित्यस्मिन् श्लोके विश्राणयन्त इति श्लोके च इतिकरणं द्रष्टव्यम् । विश्राणयन्तः विकिरन्तः । श्लोकद्वयस्याज्ञापयदित्यनेन सम्बन्धः ॥ ३०- ३३ ॥ प्रणिहिता: अत्यन्ताप्ताः ॥ ३४-३६ ॥ टी०--पुलिन इति । विविके पूते "विविक्को प्रतविजनी" इत्यमरः ॥ ३७ ॥ ३८ ॥ For Private And Personal Use Only टी.कि.कां. स० [१५ ॥७४॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy