________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ताः संप्रेक्ष्य च मामपश्यन् उच्चावचताम्रचूडाः विविधताम्रकुसुमैः कृतशेखराः । विचित्रवेषाप्सरसः नाभजिष्यत् न भजिष्यति । लडर्थे लुङ् ॥ ३४ ॥ नगेन्द्रस्य ऋश्यमुकस्य ॥ ३५ ॥ त्वं वेत्थेति । कुमारः युवा । तत् वनिताविरहदुःखम् प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं न भजेत ॥ ३६ ॥ रामानु० -त्वं वेत्येति । तत्त्वं प्रजानन् जहि माँ न वालीति पाठः ॥ ३६ ॥ यच्चापीत्यादिसार्धश्लोकः । मह्यं स्त्रीघातदोषो न भवोदिति भवान्
स्वर्गेपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली । रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ ३५ ॥ त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः । तत्त्वं प्रजानन जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ ३६ ॥ यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् । आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र । शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ ३७ ॥ दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवर्ता हि लोके ॥ ३८ ॥ त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्म मवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीरघातात् ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यन्मन्येत तन्न युक्तम् । इयं तारा अस्य वालिनः आत्मा इति मत्वा मां जहि तेन ते स्त्रीवधः स्त्रीवधदोषो न स्यात् । आत्मेत्येतदुपपादयति शास्त्रेति । " अर्धो वा एष आत्मनो यत्पत्नी । आत्मा हि दाराः " इत्यादिरूपात् विविधात् वेदाद्वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा वेदात् शास्त्रप्रयोगात् धर्मशास्त्रप्रयोगाश्चेति वाऽर्थः ॥ ३७ ॥ रामानु० - यचापि मन्येत । आत्मेयमस्पोते । शास्त्रप्रयोगात् । दारमदानादिति पाठक्रमः ॥ ३७ ॥ सुकृतमप्यस्तीत्याह- दारेति ॥ ३८ ॥ न केवलं पापनिवृत्तिसुकृते, प्रायश्चित्तं चेदमित्याह त्वं चापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितराम नगेन्द्रस्य ऋश्यमूकस्य ॥ ३५ ॥ तत् स्त्रीवियोगजदुःखम् ॥ ३६ ॥ यञ्चापीति सार्धश्लोकमेकं वाक्यम् । मह्यं स्त्रीघातदोषो भवेदिति भवान्न मन्येत । तस्य तब स्त्रीवधो न स्यात् । तत्र हेतुः आत्मेयमिति । अस्य वालिनः । इयं तारा । आत्मा “ अर्धी वा एष आत्मनो यत्पत्नी " इति श्रुतेः । मद्बधस्य वालिबध एवान्त | र्भावान्न तव स्त्रीवधदोषशङ्केति भावः ॥ ३७ ॥ न केवलं दोषाभावः, अपि तु पुण्यमप्यस्तीत्याह-दारप्रदानादिति ॥ ३८-४१ ॥
१३२
For Private And Personal Use Only