SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org hool स० २४ बा.रा.भू.देहलीदीपन्यायेनोभयत्रान्वेति । तेन दद्यादिकं समुच्चीयते ॥ ३१ ॥ तनि०- त्वमप्रमेयः रावणदुन्दुभिनिग्रहीतारं वालिनं हत्वा अकिंचित्कुर्वन्निव स्थितस्त्वं टी. कि. का. वालिभयप्राप्तगिरिवरस्य सुग्रीवस्यापि जयं दत्तवानू, शापादयितां मां स्तोतुं घटयिता । त्वमप्रमेयः त्वत्स्वरूपमस्मत्स्वरूपं च विचार्य स्तोतुमुद्युक्काहं त्वमप्रमेयो । वेदैरप्यपरिच्छेद्योसि । अतोहं कथं स्तोतुं शक्नोमि । खमप्रमेयः पुरतो विद्यमानोप्यपरिच्छेद्यश्चक्षुषा मनसाऽप्रमेयः । " न चक्षुषा गुह्यते । मनसा तु विशुद्धेन " " इति श्रुतेः । त्वमप्रमेयः धनुष्पाणिसुलभस्त्वं शृङ्खचक्रगदादिधरो नारायणोसि। त्वमप्रमेयः परत्वमपरिच्छेद्यमिति स्थितम् । सौलभ्यं चापरिच्छेदयं जातम् त्वमात्तवाणासनबाणपाणिर्महालः संहननोपपन्नः । मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युद्येन युक्तः ॥ ३२॥ येनैकवाणेन हतः प्रियो मे व मां त्वं जहि सायकेन । हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ ३३ स्वर्गेपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन् । न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ३४ त्वमप्रमेयः एकाकी सन्नपि परिकरपरीत इवाप्रधृष्यसि । त्वमप्रमेयः तापस इव स्थितोपि विराधादिदुष्टानिग्रहं कृत्वा शिष्यान् परिपालितवान् । ( अत्र व्याख्यान उपन्यस्तानामर्थानां प्रायशो गोविन्दराजीयेनैव स्पष्टत्वान्नात्र शेषं लिखितमिति ज्ञेयम् ) ॥ ३१ ॥ त्वमिति । अनेनाप्राकृतविग्रहत्वमुच्यते । संहृननेन समीचीनावयवसंस्थानेन उपपन्नः युक्तः । मनुष्यदेहाभ्युदयं मानुषशरीरपरिग्रहं विहाय । दिव्येन देहाभ्युदयेन देहसौभाग्येन युक्तः ॥ ३२ ॥ तनि० --त्वमा नबाणासनबाणपाणिर्महाबलः । महाबलत्वे हेतुमाह-- संहननोपपन्न इति । महावीर्यत्वनिभिनान्तः साराभिव्यञ्ज कशरीर संस्थानविशेष इत्यर्थः । अयं च प्राकृतशरीरेषु न संभवतीत्याह - मनुष्येति । महाराजलक्षणशौर्यादिगुणाभिव्यञ्जकमनुष्यशरीरसंस्थानविशेषेष्वपि नैतादृश इति द्योतयितुमभ्युदयपदप्रयोगः । दिव्येन । "त्रिपादस्यामृतं दिवि" इत्यादिप्रमाणसिद्धाप्राकृत लोकस्थित दिव्यमङ्गलविग्रहसन्निवेशेनेत्यर्थः ॥ ३२ ॥ एवं रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणं विस्मृतशोका तद्वैभवं वर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति येनेत्यादिना ॥ ३३ ॥ स्वर्गेपीति । पद्मामलपत्रनेत्रो वाली स्वर्गेपि अप्सरोभिः समेत्य त्वमात्तेति । दिव्येन दिवि भवेन । देहाभ्युदयेन सौभाग्येन ।। ३२-३४ ॥ Acharya Shri Kailassagarsun Gyanmandir स० [आत्ताणासनश्वासी गणपाणिखेति वा आती गणासनबाणी याम्यां तादृशी पाणी यस्येति वा । संहननोपपन्नः सिंहस्कन्धः मम प्रियो वाली हतस्वन् | मनुष्यदेहाभ्युदयं मनुष्यसदृशमपि राज्य सौभाग्यं विहाय दिव्येन विभवेन देहाभ्युदयेन सौमाग्येन युक्तः । अथवा दिवि भवं दिव्यम् देवजातं तस्येनः स्वामी इन्द्रः तस्य देहायान्युदयेन युक्तोऽभूत् । तेनैव वाणेन मां जहि संहर । इहि गन्छ । महत्वा गच्छेति लौकिकवाप्रीतिरियम । जहि इहांति छेदः तेनैव बाणेन दि मां जहीहि इति पाठ: ३२ ।। ३३ ।। For Private And Personal Use Only ॥७०॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy