________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श मानुकूल्यमुक्तम् । क्षितिक्षमावान् क्षितेर्यादृशी क्षमा तादृशक्षमावान् । क्षमावत्त्वभुवनगोप्तृत्वगुणी तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने कृतादरः ॥२५॥ रामागमनमालोक्य मन्त्रिणस्तामुत्थापयामासुरित्याह-तामिति ॥ २६॥२७॥ सुसंवृतमिति । पार्थिवलक्षणेः राजलक्षणैः । सुसंवृतम् अन्यूनतया युक्तमित्यर्थः । चारुनेत्रम् पुण्डरीकाक्षम् । मृगशावनेत्रा “विद्वानेव विजानाति विद्वजनपरिश्रमम्" इति न्यायेन स्वयं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः। अदृष्टपूर्वम् इतः पूर्व कुत्राप्यदृष्टचरम्, योगं विना अदृष्टमित्यर्थः ।।
तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपि वीरपत्नीम्॥२६॥ सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना । ददर्श राम शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७॥ सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा । अदृष्टपूर्व पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥२८॥ तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या । आर्ताऽतितूर्णं व्यस नाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ २९ ॥ सा तं समासाद्य विशुद्धसत्त्वा शोकेन-संभ्रान्तशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ ३०॥ पुरुषप्रधानं पुरुषोत्तमम् । अयं स इति विजज्ञे यः पूर्व भर्तारं हतवान् सोऽयमिति ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छुतः । यद्वा यः पूर्व पुण्डरीकाक्ष वादिगुणविशिष्टतया महाजनेभ्यः श्रुतः स एवायमित्यर्थः । अत एव वक्ष्यति त्वमप्रमेयश्चेति ॥२८॥ तस्येति । व्यसननिवर्तनक्षमा गुणा उच्यन्ते। परिविह्वलन्ती मूर्छन्तीत्यर्थः ॥ २९ ॥ सेति । रणे उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । एकेन शरेण स्वभर्तृहन्तारमित्यर्थः । तं रामम् । शोकेन सम्भ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः यस्याः सा, कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं यावच्छक्ति परुषाणि विदेयमिति कृताध्यवसाया। समासाद्य विशद्धसत्त्वा रामसनिधिमाहात्म्येन निवृत्तकालुष्यतया समुन्मिपित शुद्धसत्त्वा तारा वाक्यमुवाच । परुषभाष |
सुसंवृतमिति ।सा विस्फुरन्ती व्यपनीयमाना तारा उक्तविशेषणविशिष्टं तम् अयं स काकुत्स्थः अङ्गदवाक्यादवगतः काकुत्स्थ इति प्रजज्ञ इति सम्बन्ध d॥२८॥२९॥ सेति । रणोत्कर्षणलब्धलक्ष्यं रणे उत्कर्षणमुत्कषों येषां ते तथोक्ताः तैः प्रथमगणनायां वीराप्रणीरिति लभ्यन्वेन लब्धमित्यर्थः। सम्भ्रान्तशरीरभावात
For Private And Personal Use Only