________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श.रा.भू
टी.कि.का.
स०२४
णोद्युक्तयैव वाचा अस्तौषीदित्यर्थः ॥ ३० ॥ तनि०-विशुद्धसत्त्वा तत्सन्निधिमाहात्म्पेन समुन्मिषितसत्त्वा । परुषभाषणोद्युक्तापि सत्त्वनिष्पन्नपरमज्ञानतया निवृत्त कोपकलुषा सान्त्वमुक्तवती ॥ ३० ॥ एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादिभिरनुसंहितं परत्वं ताराऽनुसन्धत्ते-त्वमप्रमेयश्चेति । त्वम् वक्ष्यमाणकल्याण गुणानुगुणधर्मवलक्षण्ययुक्तः । अप्रमेयः । “वेदाहम्" इत्युपक्रम्य “महान्तं क इत्या वेद इति वेदैरप्यपरिच्छेद्यः । अप्रमेयः “सो अङ्ग वेद यदि वा न वेद" इति स्वेनापि परिच्छिय ज्ञातुमशक्यः । तमप्रमेयः प्रत्यक्षगम्योऽपि मनसा दुर्विभाव्यस्वभावः । त्वमप्रमेयः शरचापधरोऽपि त्वं शङ्खचक्र । धरोसि । त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते । त्वमप्रमेयः परिकररहितोपि प्रतापातिशयेन निरवधिकपरिकरपरिगत इव दुरवगाहोसीत्येक
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान क्षतजोपमाक्षः ॥ ३१ ॥ वचनस्य भावः । एवमन्तःकरणेन दुष्प्रापोपि किं बाह्य करणैः सुप्रापः ? नेत्याह दुरासदश्च । मनसापि दुरासदः कथं प्रकारान्तरेण स्वासद इति भावः ।। दुरासदश्च । “ महाजनो येन गतः स पन्थाः" इत्युक्तं सन्मार्ग विना पथस्खलितेन दुष्पाप इत्यर्थः । दुरासदश्च "षदल, विशरणगत्यवसादनेषु" इति। धातुपाठोक्तार्थत्रयमपि तन्त्रेणोच्यते। नित्यत्वान्न विशरणाईः । विभुत्वान्न विचालनाईः । नित्यानन्दत्वात्रावसादमापादयितुं शक्य इत्यर्थः । दुरासदश्च | वालिवधकुपितानां प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव इत्यर्थः । एवमप्रमेयत्वदुर्धर्ष वाभ्यां सुदृप्तोऽपि न परदारराज्यपरिग्रहलुब्ध इत्याह-जितेन्द्रियश्चेति । निःस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थः । जितेन्द्रियश्च यः कोपि पुरुषः काश्चि । घोषितमालक्ष्य निर्वर्णयति त्वं तु न तथा। "न रामः परदारान् वै चक्षुभ्यामपि पश्यति" इत्युक्तेः । जितेन्द्रियश्च “पश्यत्यचक्षुःस शृणोत्यकर्णः। अपाणि
पादो जवनो ग्रहीता" इत्याद्युक्तरीत्या सर्वेन्द्रियविनापि सर्व सर्वत्र सर्वदा जानन्नित्यर्थः। जितेन्द्रियः "दुहं मनसाप्यन्यैरिन्द्रियैरपि दुर्जयः" इत्युक्तरीत्या ।। Kलवाङ्मनसागोचरः। त्वं जितेन्द्रियः त्वमेव जितेन्द्रियः। सर्व वाक्यं सावधारणम् । अन्भक्षो वायुभक्ष इतिवत् । “अहल्यायै जारः सुरपतिरभूदात्मतनयां
प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम्।" इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वेपि विषयचपलाः । त्वमेको जितेन्द्रियः इत्यर्थः । एवं विरक्तोप्ययमस्मद सम्भ्रान्तौ विवशी शरीरभावो देहान्तःकरणे यस्यास्सा ॥ ३० ॥ ३१ ॥
॥९॥
For Private And Personal Use Only