________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वानरजात्युचितवृत्त्या । तस्मिन् शैलमुख्य ऋश्यमूके निवासः श्रेयस्करः। इमं वालिनं निहत्य त्रिदिवस्य स्वर्गस्य लाभोऽपि न श्रेय इत्यर्थः ॥७॥ न त्वामिति । महात्मा महास्वभावः । मतिमान् कर्तव्याकर्तव्यविवेकशीलः । अयं वाली । त्वां न जिघांसामि न मारयितुमिच्छामि । चर यथेष्टं । गच्छेति मामुवाचेति यत् तद्वचः तस्यैव अनुरूपं सदृशम् तदुद्धिशीलतुल्यम् । इदं भ्रातृवधरूपं कर्म तु मे दुरात्मनो दुर्मतेरनुरूपम् ।। ८॥भातेति ।
न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच । तस्यैव तद्रामवचोऽनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥ ८॥ भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत् । राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् काम पुरस्कृतः सन् ॥९॥ वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात् । ममासीद बुद्धिदौरात्म्यात्प्राणहारी व्यति क्रमः ॥१०॥द्रुमशाखावभग्नोऽहं मुहूर्त परिनिष्टनन् । सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥११॥ भ्रातृत्व मार्यभावश्च धर्मश्चानेन रक्षितः । मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ १२॥ अचिन्तनीयं परिवर्जनीय
मनीप्सनीयं स्वनवेक्षणीयम् । प्राप्तोस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः॥ १३ ॥ राज्यस्य भ्रातृवधसाध्यस्य । दुःखस्य वधानन्तरभाविदुःखस्य च । सारम् उत्कर्षम् । न चिन्तयन् । उभयोस्तारतम्यमचिन्तयनित्यर्थः ॥९॥ महात्मेन्युक्तं विशदयति-वध इति । अस्य वालिनः । स्वमाहात्म्यस्य स्वमहत्त्वस्य अव्यतिक्रमात् अनतिक्रमणात् । मे वधः मनिधनं मतो नासीत् । मम तु बुद्धिदौरात्म्यात् बुद्धेदुःस्वभावात् । प्राणहारी भ्रातृवधकारी । व्यतिक्रमः अमर्यादा आसीत् ॥१०॥मतो नासीदित्युक्तं विशदयतिद्रुमेति । परिनिष्टनन् आर्तवं कुर्वन् । न पुनः कर्तुमर्हसि, युद्धमिति शेषः । अत्रेतिकरणं द्रष्टव्यम् ॥११॥ १२॥अचिन्तनीयमिति । अचिन्तनीयम् वालिनं प्रशंसना-मान निन्दनि-न त्वामिति । इदं कर्म भ्रातृहननरूपं कर्म ॥ ८॥ भ्रातेति । राज्यस्य दुःखस्य च सारं न चिन्तयन् भ्रातृवधात प्राप्तस्य राज्यस्य भ्रातृवधजनित अस्वस्य चोत्कर्ष न चिन्तयन्, उभयोस्तारतम्यं न चिन्तयन्नित्यर्थः ॥९॥ मे मम । वधः मतः सम्मतः नासीत, वालिन इति शेषः । स्वमाहात्म्याव्यतिक्रमात स्वमाहात्म्यानुल्लङ्गनात । मम बुद्धिदौरात्म्यात बुद्धिमोहात । प्राणहानिध्यतिक्रमः वालिवधरूपः अन्यायः आसीदित्यर्थः ॥१०॥ द्रुमेति । परिनिष्टनन् आतत्वं मुचन्नई न पुनः कर्तुमर्हसीत्यनेन वालिना उक्त इति सम्बन्धः ॥ ११ ॥ १२ ॥ अचिन्तनीयमिति । अचिन्तनीयं पापचित्तेरपि चिन्तयितुमयोग्यम् । परिषर्जनीयं
For Private And Personal Use Only