________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.
अपरिच्छेद्यमित्यर्थः। परिवर्जनीयं साधुभिस्त्यक्तव्यम् । अनीप्सनीयम् अनभिलषणीयम् । कदाचिदपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीय टी.कि.का. सुतरामदर्शनीयम्, जुगुप्सितमित्यर्थः । त्वष्टुः पुत्रः त्वाष्टः विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानमगमदिति कथा ॥१३॥ पाप्मानमिति । इन्द्रस्य स. २४ परमैश्वर्यसंपन्नस्य पाप्मानं मह्यादयः ऊपरफेननिर्यासऋतुरूपेण जगृहुः। खातपूरणादिवरप्रदत्त्वात् । मम तु शाखामृगस्य कस्याप्यनुपकारकस्य। पाप्मानं
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च । को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्त मिच्छन् ॥ १४॥ नार्हामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् । अधर्मयुक्तं कुलनाशयुक्तमेवंविध राघव कर्म कृत्वा ॥१५॥ पापस्य कतास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव । शोको महान् मामभिवर्तते ऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ १६॥
1498 प्रतिपत्तुं किंचिद्वरम् प्राप्तुमिच्छन् को नाम क्षमत, ग्रहीतुमिति शेषः। यद्यपि विश्वरूपाख्यायिकायां त्वादशिरस्त्रयच्छेदकृतब्रह्महत्यात्रितयं पृथिवीवन स्पतिस्त्रिय एव जगृहुरित्युक्तम् । तथापि शाखान्तरानुरोधेन जलेनापि कश्चिदंशो गृहीत इत्यवगन्तव्यम् ॥१४॥ नार्हामीति । कुलनाशयुक्तम् । कुलनाश फलकम्, वालिविनाशेनाङ्गदादेरजीवनादिति भावः। एवंविधं भ्रातृवधरूपं कर्म कृत्वा । प्रजानां संमानं प्रजाकर्तृकराजसंमानम् । नार्हामि । अत एव यौव राज्यमेव नाहामि, कुतो महाराज्यामिति भावः ॥१५॥ पापस्येति । क्षुद्रस्य दुष्टस्य । विगर्हितस्य विशेषेण शिष्टनिन्दितस्य । लोकापकृतस्य सर्वलोके स्त्यक्तस्य पापस्य कर्तास्मि । एतादृशपापस्योत्तरपापहेतुत्वज्ञापनाय तृच्प्रत्ययः। वृष्टेरुत्पन्नोऽम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभय वाप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव ॥ १६॥ शपापकारिभिरपि दूरतस्त्याज्यम् । अनीप्सनीयं पापरुचिभिरप्यनाकांक्षितव्यम् । स्वनवेक्षणीयं पापदर्शिभिरपदर्शनीयम् । स्वाष्ट्रवधात् त्वष्ट्रपुत्रविश्वरूपवधात ॥६॥ ॥१३॥' प्रतिहर्तुमिच्छेत' इति पाठः । परिहर्तु को वा इच्छेद को वा सहेतेति सम्बन्धः ॥१४॥ नास्मीति । एवंविधं कर्म भ्रातृवधरूपं कृत्वा स्थितः, अहमिति ग शेषः । प्रजानां सम्मान प्रति नाहामि यौवराज्य प्रति नार्हामि, कुतो राज्यं प्रत्यर्हामीति योजना ॥ १५ ॥ पापस्येति । इवशब्दस्तथार्थे । वृष्टेरम्बुवेगो यथा तथा महान शोको मामनुवर्तते । टी-विगहितस्प निषिद्धस्प । भुद्रस्य जुगुप्सितस्य । लोकायमतस्प लोकविशिष्टस्य ॥ १९॥
For Private And Personal Use Only