SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्वेभ्योपि शोणितानि सुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं सर्वात्मना प्राणो न गत इति गम्यते ॥ १९-२१ ॥ अवस्थामिति । पापकर्मणा पापरूपकर्मणा सम्प्रसक्तस्येति सम्बन्धः ॥ २२-२४ ॥ अभिवादयमानमिति । त्वामभिवादयमानमित्यन्वयः ॥ २५ ॥ २६ ॥ | रामानु० - अभिवादयमानं त्वामिति पाठ: । अत्र उवाच तारेत्यनुषज्यते । सिंहेन निहतमिति पाठः ॥ २५ ॥ २६ ॥ इवेति । रामप्रहरणाम्भस्येवावभृथ इति व्यस्त अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् । सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥ २२ ॥ बालसूर्योदयतनुं प्रयान्तं यमसादनम् । अभिवादय राजानं पितरं पुत्र मानदम् ॥ २३ ॥ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः । भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ २४ ॥ अभिवाद्यमानं त्वामङ्गदं त्वं यथा पुरा । दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ २५ ॥ अहं पुत्रसहाया त्वामुपासे गतचेतसम् । सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ २६ ॥ इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि । अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ २७ ॥ या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ २८ ॥ राजश्रीनं जहाति गतासुमपि मानद । सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव । हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ Acharya Shri Kailassagarsun Gyanmandir | रूपकम् ॥ २७ ॥ २८ ॥ राजश्रीरिति । शैलराजं मेरुम् । आवर्तमानस्य अस्तं गच्छत इत्यर्थः ॥ २९ ॥ न म इति । पथ्यं हितं वचः । न कृतं नानुष्टितम् ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ अवस्थामिति । पापकर्मणा पापरूपकर्मणा । सम्प्रसक्तस्य प्राप्तस्य वैरस्यान्तो गतः वैरं समाप्तमित्यर्थः ॥ २२-२८ ॥ राजश्रीरिति । शैलराजं मेरुम् । आवर्तमानस्य प्रदक्षिणं कुर्वतः । अवर्तमानस्य इति च छेदः । अदृश्यस्येत्यर्थः ॥ २९ ॥ ३०॥ इति श्रीमहे० श्रीरामायणतस्व० किष्किन्धाकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy