________________
Shri Mahavir Jan Aradhara Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
II
INI वा.रा.भ. सुग्रीव इति भावः ॥२॥ नाय शोचनीयः स्वकर्मानुरूपेण गतत्वात् । किंतु स्वात्मैव शोच्यः केन कर्मणा कं लोकं गमिष्यामीति तद्दर्शयति-Iटी .कि.का. ॥६॥ शोच्येति । स्वयं शोच्या त्वं के प्रति शोचसि । स्वयं दीना के दीनम् अनुकम्पसे दयसे । बुद्धदोपमे जलबुदुदवदस्थिरे देहे । निमित्तसप्तमी । कस्य स. ११
को वाऽनुशोच्योऽस्ति, सर्वेषामप्यस्थिरत्याविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचेदिति भावः ॥ ३॥ अङ्गदस्त्विति । द्रष्टव्यः परिपालनीयः।।
शोच्या शोचसि कं शोच्यं दीनंदीनाऽनुकम्पसे । कस्य को वाऽनुशोच्योऽस्ति देहेऽस्मिन् बुबुदोपमे॥३॥अङ्गद स्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥४॥ जानास्यनियतामेवं भूतानामागति गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ॥५॥ यस्मिन् हरिसहस्राणि प्रयुतान्यर्बु दानि च । वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥६॥ यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो
धर्मजितां भूमि नैनं शोचितुमर्हसि ॥ ७॥ आयत्याम् उत्तरकाले । समर्थानि हितानि ॥ ४॥ जानासीति । अनियतामागति गतिम्, अस्थिरतामिति यावत् । शुभम् आर्वदेहिकम् । ऐह लौकिकं रोदनादिकम् ॥५॥ यस्मिन्निति । यस्मिन् विषये । हरीत्यविभक्तिकनिर्देशः । हरीणामित्यर्थः । कृतांशानि कृतविभागानि । सन्ति वर्तयन्ति । जीवनं कुर्वन्ति सोऽयं दिशान्तं दिष्टस्य देवकल्पितकालस्य अन्तं समाप्तिम् । 'कालो दिष्टोऽप्यनेहापि"इत्यमरः। बहून् स्वजनान् जीवयित्वा गतः स्वसुकृत 7 फलं प्राप्तुं गतः । अतः स न शोच्य इति भावः ॥ ६॥ यदिति । न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम दुःखितानां स्वजनानां सान्त्वनम् । दानम् । सुखदुःखं प्रेत्य अव्ययः अवाप्नोत्येवोत योजना ॥ टी-आश्वासनपकारमाह-गुणदोषतमिति । सुकृतदुष्कृतफलं सर्वथा सर्वैरनुभाब्यमित्यर्थः ॥ २ ॥ शोच्येति । दीनमित्यत्रापि कमिति सम्बध्यते । अनुशोकः अनुबन्धशोकः । सर्वप्राणिशरीराणामनित्यतया सर्वेषां शोच्यत्वेन न कुत्रापि शोकः कार्य इत्याह न शोच्यति ॥ ३ ॥ अङ्गद स्त्विति । आयत्याम् उत्तरकाले । विधेयानि कर्तव्यानि । समर्थानि समयोजकानि । अस्य अङ्गदस्य ॥ ४ || पण्डिते इति सम्बुद्धचन्तमेतत् । शुभम् ओर्व दैहिक हि कर्तव्यम् । पेहलौकिक रोदनादिकं न कर्तव्यम् । यस्मिन् वर्तयन्ति जीवनं कुर्वन्ति । कृतांशानि कृतविभागानि । दिष्टान्तं परिकल्पितकालान्तम्, मरणमित्यर्थः ॥ ५॥ ६ ॥ न्यायदृष्टार्थः न्यायेन नीतिमार्गेण दृष्टार्थः दृष्टप्रयोजन इत्यर्थः । धर्मजिता वशीकृतधर्माणां भूमि स्थानम् ॥ ७ ॥
For Private And Personal Use Only