________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभीष्टार्थदानम् । क्षमा तत्कृतापराधसनम् । एतासु परः सक्तः अयम् । धर्मजितां स्वाधीनधर्माधर्मकाणाम् । भूमिं लोकम् । यत् यस्मात् गतः । तस्मान्नैनं शोचितुमईसि ॥ ७ ॥ सर्व इति । हरीणाम् ऋक्षाणां च । राज्यं त्वत्सनाथं त्वया सनाथम् ॥ ८ ॥ रामानु० - हर्तृक्षपतिराज्यं चेति पाठः । अन्यथा वक्ष्यमाणाङ्गदाभिषेकवचनविरोधः स्यात् ॥ ८ ॥ ताविमाविति । ताविमौ शोकसन्तापौ शोकतत्ततापौ । शनैः क्रमेण प्रेरय निवर्तय । भर्तृमरणशोकस्य । सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । इदं हर्यक्षराज्यं च त्वत्सनाथमनिन्दिते ॥८॥ ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥ सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्र तम् । राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ॥ १० ॥ संस्कार्यो हरिराजश्च अङ्गश्चाभिषिच्यताम् । सिंहा सनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता । अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ १२ ॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् । हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥ न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥ सद्यो दुस्त्यजत्वादिति भावः ॥ ९ ॥ रामानु० - ताविमौ शोकसन्ताप शनैः मेरय भामिनीति पाठः । प्रेरय निवर्तय । त्वयेति । अङ्गदाभिषेचनं तारादुःखशान्तये दर्शितम् ॥ ९ ॥ संततिश्वेति । संततिश्व यथा दृष्टा यत्प्रयोजनकः सन्तानो लब्धः । साम्प्रतम् इदानीम् । यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियताम् । एष निश्चयोऽस्य कालस्य योग्य इति शेषः । नतु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदेहिकं क्रियतामित्यर्थः ॥ १० ॥ उक्तमर्थ वाचा दर्शयति-संस्कार्य इति । शान्ति दुःखशमम् ॥ ११ ॥ १२ ॥ अङ्गदेति । अङ्गदप्रतिरूपाणाम् अङ्गदतुल्यानां पुत्राणां सत्पुत्राणां शतम् एकतः एकत्र एकतुलाया मस्तु । हतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनम् एकतोऽस्तु । तयोर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ॥ १३ ॥ संस्कार्य इत्यस्योत्तरमाह-न चेति त्वत्सनाथं त्वया सनाथम् ॥ ८ ॥ ताविमाविति । तौ इमौ हरिशार्दूलम् अङ्गदम् प्रेरय निवर्तय । दुःखादिति शेषः ॥ ९ ॥ सन्ततिश्च यथा दृष्टा यत्प्रयोजनसन्तानो |लब्ध इत्यर्थः । यत्कृत्यं साम्प्रतं योग्यम् तत्सर्वं राज्ञः क्रियताम् । एष निश्वयः कर्तव्यत्वेन विहितोयं निश्वयः । कालस्य वर्तमानस्य सम्बन्धीत्यर्थः ॥ १० ॥ सन्तति रित्याद्युक्तमेव स्पुटयति-संस्कार्य इति ॥ ११ ॥ पतिव्रताधर्ममनुसृत्याह-सा तस्येति ॥ १२ ॥ अङ्गदेति । पुत्राणामेकतश्शतम् एकं शतम्, भवत्विति शेषः । तदपेक्षया अस्य गात्रसंश्लेषणं वरमित्यर्थः ॥ १३ ॥ वानरराज्याङ्गदयारे नाथत्वात्त्वया स्थानव्यमित्यत आह-न चेति । कस्तर्हि नाथ इत्यत आह पितृव्य इति
For Private And Personal Use Only