SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir S अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितम् ॥ १५॥ पर्यवस्थितं समीपे अवस्थितम् ॥१६॥ स वालीति । कृतक्षणः कृतोत्सवः । लब्धावसरो वा । “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः" इत्यमरः ॥ १७-२०॥ एवमिति । पततु मूर्धनीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥२१॥ तेन वालिना स तं दृष्ट्वा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमरोषणः ॥ १६॥ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धं कृतक्षणः ॥ १७॥ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् । आपतन्तं महावेग मिदं वचनमब्रवीत् ॥१९॥ एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्कुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥२०॥ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तवैव चाहरन् प्राणान मुष्टिः पततु मूर्धनि ॥२१॥ ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगितः। अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः॥२२॥ सुग्रीवेण तु निस्सङ्गं सालमुत्पाव्य तेजसा । गात्रेष्वभिहतो वाली वजेणेव महागिरिः ॥ २३ ॥ स तु वाली प्रचलितः सालताडनविह्वलः । गुरुभार समाकान्तो नौसार्थ इव सागरे ॥ २४ ॥ तो भीमबलविक्रान्तौ सुपर्णसमवेगिनौ । प्रवृद्धौ घोरवपुषौ चन्द्रमूर्या विवाम्बरे । परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ॥ २५॥ ताडितः। अत एव संक्रुद्धः । वेगितः सञ्जातवेगः। पुनः प्रहारायेति शेषः । अत्र सुग्रीव इत्यध्याहार्यम् । सोत्पीडः सनिझरः ॥ २२ ॥ २३ ॥ स विति। नौः पोतः ॥ २४ ॥ रामानु०-स विति । नौसार्थः नीसमूहः ॥ २४ ॥ तावित्यादि । विक्रान्तौ विक्रमवन्तौ । भीमबलौ च तो विकान्तौ चेति कर्मधारयः । सुपर्ण तक्षणः कृतावसरः ॥ १७-२०॥ एवमिति । मूर्ध्नि मुष्टिः पतत्वित्यब्रवीदिति योजना ॥ २१ ॥ तेन वालिना । सोत्पीड इव सनिर्झर इव ॥ टी०-समतिक्रम्य, धीरसमपमिति शेषः । तथा चोक्तम्-"धीरः प्रवर्तते पूर्ण विकर्ता तदनन्तरम् । समयोऽयं म्हयुद्धे" इति । गितः सनातचलनः ।। २२ ॥ २२ ॥ स त्विति । सः सार्थनी सकसहिता नोरिव । सार्थाः व्यावहारिकाः ॥ २४ ॥ ताविति । प्रवृद्धौ, अभूतामिति शेषः ॥ २५ ॥ २६ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy