________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
टी.कि.
॥४२॥
आपतितः उत्पन्न इत्यर्थः॥२॥स विति । रोपेण परीताङ्गः विपरीताङ्गः, विकृतवेष इत्यर्थः । अत एव सन्ध्यातपप्रभः 'कोपपावकयावकिताननः' इति प्रयोगात्कोपरक्तदेहत्वात्सन्ध्यातपप्रभत्वम् । किंच उपरक्तः समीपरक्तः, कृतपरिवेष इत्यर्थः। परिवेषयुक्तो हि सूर्यों निष्प्रभो दृश्यते । उपरक्तो राहुयस्तो वा ॥ ३ ॥ रामानु-सन्ध्यातपप्रभः सन्ध्यातपवत्पिङ्गलवर्णः । स वाली रोषपरीताङ्गः अत एवोपरक्त आदित्य इव सद्यो निष्पमतां गत इति सम्बन्धः ॥३॥ दंष्ट्राकरालः
सतु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥३॥ वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः ।भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४॥ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः। वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५॥ तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥६॥ साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्
॥७॥ काल्यमेतेन सङ्कामं करिष्यसि च वानर । वीर ते शत्रुवाहुल्यं फल्गुता वा न विद्यते ॥ ८॥ दंष्टादन्तुरः । “करालो दन्तुरे तुङ्गे" इत्यमरः । क्रोधाद्धेतोः दीप्ताग्निसन्निभः अत एवोत्पतितपद्मः विकसितरक्तोत्पलः । उत्पतितपद्माभ इति पाठे उत्पतिता स्वोपरि प्रसृता पद्मानामा भा यस्मिन् स इत्यर्थः। समृणालो हृदः इव भाति बभौ॥४॥रामानु०-बालीति । दीप्ताग्निसन्निभो वाली क्रोधाद्दष्ट्राकरालः उत्पतितपद्माभः गजादिभिरुदतपद्माभः समृणालो हद इव भाति इति योजना । दंष्ट्रा मृणालस्थानीया ॥४॥५॥परिष्वज्य स्ववचनश्रवणाभिमुख्यायालिङ्गय हात परिष्व ज्येत्यन्वयः। दर्शितसौहृदा यथा भवति तथोवाचेत्यर्थः । संभ्रान्ता त्वरिता । “संभ्रमस्त्वरा" इत्यमरः। हितोदक हितफलकम् ॥६॥ साध्विति । काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां खजमिव । नदीवेगमिव आगतम् अप्रतिबद्धं क्रोधम् । साधु निश्शेपं त्यज ॥७॥ काल्यं प्रातःकाले, एतेन युद्धं करि पदव्यामेकपापि" इति विश्वः ॥२॥ सत्विति । सन्ध्यातपप्रभः सन्ध्यातपवत्पिशङ्गवर्णः । रोषपरीताङ्गः अत एव उपरक्तादित्य इव सद्यो निष्प्रभा गत इति सम्बन्धः अनेन भाग्यनर्थः सुच्यते ॥ ३ ॥ उत्पतितपद्माभः गजादिभिरुद्धृतपद्माभः समृणालो हद इव भातीति योजना । दंष्ट्रा मृणालस्थानीयाः । दीप्ताग्निसंनिभत्वं कालुष्यकषायवर्णप्राकटयाय ॥ ४ ॥५॥ दर्शितसोहदा दर्शितसौमनस्या ॥ ६ ॥ शयनादुत्थितः पुरुषः भुक्तामनुभूता नजं माल्यम् काल्यं प्रातःकाले यथा त्यजति तथा क्रोधं त्यजेति सम्बन्धः ॥ ७॥ काल्यं प्रातःकाले । ते तव । फल्गुता लाघवं शत्रुवाहुल्यं शत्रोर्बाहुल्यं गौरवं वा न विद्यते, शत्रुविषयबलाबल
॥४२॥
For Private And Personal Use Only