SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir काशी। ताच्छील्ये णिनिः। असङ्गेन अविलम्बेन ॥ १७॥ रामानु०-जितकाशी जितश्रमः ॥ १७ ॥ स्त्रीसमक्षमित्यनेन तदानी सायंकाल इत्यवगम्यते । "प्रातमूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । सायं कामेन पीब्यन्ते जन्तवो निशि निद्रया ॥” इति वचनात् ॥१८॥१९॥ हतप्रभाः भीतिविकृतमुख कान्तयः । गाव इत्यनेन गवां पुरप्रवेशकालसूचनात्तत्कालस्य सायन्तनत्वं गम्यते । राजदोषपरामृष्टाः राजदोषेण अराजकत्वरूपदोषेण परामृष्टाः परैः । रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे । जानन्तस्तु स्वकं वीर्य स्त्रीसमक्षं विशेषतः ॥ १८॥ स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः । ननर्द क्रूरनादेन विनिर्मिन्दन्निवाम्बरम् ॥ १९॥ तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः॥२०॥ द्रवन्ति च मृगाः शीघ्र भगा इव रणे हयाः । पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥२१॥ ततः स जीमूतगणप्रणादो नादं ह्यमुश्चत्त्वरया प्रतीतः । सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोमिः ॥२२॥ इत्यार्षे श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥१४॥ अथ तस्य निनादं तु सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ १॥ श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥२॥ परपुरुषैः आमृष्टाः केशेषु गृहीताः कुलस्त्रिय इव आकुलाः गन्तव्यप्रदेशाभावेनाकुलाः ॥२०॥२१॥ प्रतीतः नादमोचने प्रसिद्धः । सरित्पतिर्वा । समुद्र इव ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥ अथ ताराबुद्धिः पञ्चदशे-अथ तस्येत्यादि । महात्मनः महाधैर्यस्य ॥ १॥ श्रुत्वेति। स्थितस्येति शेषः । एकपदे एकस्मिन्नेव स्थाने, सद्य इत्यर्थः। जितेन जयेन काशते प्रकाशत इति तथा । असङ्गेन अतिशीघ्रण ॥१७-१९ ॥ तस्येति । राजदोषपरामृष्टाः राजदोषव्याप्ताः । राजाज्ञाभावे बलाधिकजारभीत्या कुलखियो यथा निष्प्रभा यान्ति तथा गावो यान्तीत्यर्थः ॥ २०॥ २१॥ सरित्पतिवेंत्यत्र वाशब्द इवार्थे । सरितः पतिरिव त्वरया नादं मुचन प्रतीतः प्रसिद्धः सः सुग्रीवः विवृद्धतेजाः, अभवदिति शेषः ॥२२॥ इति श्रीमहेश्वरतीर्थ श्रीरामायण किष्किन्धाकाण्ड• चतुर्दशः सर्गः ॥१४॥१॥ टी-एकपदे तत्काले “एकं पदं स्पातत्काले ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy