________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
आगतः कालः फलकालः ॥६॥ रामानु-लता काल इवागत इति सम्यक् । कालो बसन्तादिकालः ॥॥॥७॥ अभिज्ञापकं चिदम अभिज्ञाननिहम । कृतमभिज्ञानचिह्न यस्य स तथा । गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस इति । अत्राहुः-विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । “परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ॥” इति वचनात् ।
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा । सफलां तां कुरु क्षिप्रं लतां काल इवागतः॥६॥ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः। तमथोवाच सुग्रीवं वचनं शत्रुसूदनः॥ ७॥ कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया। लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव ॥८॥
शोभसे ह्यधिकं वीर लतया कण्ठसक्तया। विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥९॥ यद्वा नक्षत्रमालया विपरीतः विशेषेण परिवृतः सूर्य इव चन्द्र इव । अन्यशब्देनान्यस्याभिधानं कथमिति चेत् ? “नवो नवो भवति" इति श्रुतौ अह्नां। केतुः सूर्यः चन्द्राप्यायकत्वाञ्चन्द्रमा इत्युच्यते । तद्वचन्द्रोपि सूर्यकिरणानुप्रवेशायत्तप्रकाशविशेषवत्त्वात् सूर्यशब्देनाभिधीयत इति । यद्वा विशेषेण । परीतो विपरीतः नक्षत्रावृतः सूर्य इत्यभूतोपमा । विपरीत इत्यनेन तात्कालिकतेजोवत्त्वमुच्यते । यद्वा विपरीते विपरीतकाले । सूर्यों नक्षत्रमालयेव अनया लतया शोभसे । उत्पातकाले हि मध्याह्ने नक्षत्राणि दृश्यन्त इत्युच्यते ज्योति शास्त्रे-"रात्राविन्द्रधनुर्दशें दिवा नक्षत्रदर्शने । तद्राष्ट्रनाथ नाशः स्यादिति गर्गस्य भाषितम् ॥” इति । अतः भाविवालिवधरूपफलानुसारेण तेजसा ज्वलन् सुग्रीवः शुभ्रपुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्षत्रमालया सूर्य इव बभावित्यस्मदाचार्योक्तम् ॥ ८॥९॥ रामानु-अवार्य विशेषः । चन्द्रस्य सूर्यकिरणानुप्रवेशप्रकाशवर्ष विष्णुपुराणे प्रसिद्धम् ।
कृतेति । कृताभिज्ञानचितः कृतमभिज्ञानार्थ चिहं यस्येति तथा ॥ ८॥ शोभस इति । आकाशे नक्षत्रमालया विपरीतो विशेषेण परीतः परिवृतः सूर्य इव पचन्द्र इव त्वं शोभसे । सुवति मेरयतीति सूर्य इति व्युत्पत्या नक्षत्रमण्डलपरिवृतत्वविशेषणेन च चन्द्र एव सूर्यशब्देनोच्यते । यद्वा अभूतोपमेयम् । आकाशे
नक्षत्रमालया विपरीतो विशेषेण परिवृतः सूर्य इव त्वं शोभसे । यद्वा विपरीत इति सप्तम्यन्तम् । विपरीते रात्री सूर्यः पौर्णमासीचन्द्रः "परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । पौर्णमासीगतचन्द्रः सूर्य इत्यभिधीयते ॥” इति वचनात् । रात्रावाकाशे पूर्णचन्द्रो नक्षत्रमालया यथा शोभते तथा कण्ठसक्तमालया त्वं शोभस इति ।। टी०-गजसाहपा गजेन समा मादा आराया यस्यास्सा, इन्दलतेति यावत् । तया कण्ठसतमालया वं शोमस इति ॥९॥
१२०
For Private And Personal Use Only