SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तपोयोगेन वा वार्द्धकेन वा मलपङ्कजटानां धरम् । विधिवत् क्रमवद्यथा भवति तथा अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञानात् भाषणम् ||५|| मा अभिवादयन्तं माम् । अभिवद प्रत्यभिवादनं कुरु । सत्यविक्रम अमोघतपःप्रभाव || ६ ||७|| सनाथ इव सनाथ एव । यद्वा सर्वदा त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं जातेत्यर्थः ॥ ८ ॥ स्वस्य मोक्षापेक्षां व्यञ्जयति-प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् त्वदागमनं काङ्क्ष रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः । त्वं माऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ ॥ स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥ स्वागतं खलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ ८ ॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ९ ॥ चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ १० ॥ इहोपयातः काकुत्स्थ देवराजः शतक्रतुः । उपागम्य च मां देवो महादेवस्सुरेश्वरः । सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ ११ ॥ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir गतम् ? माण इत्यर्थः । देवलोकं नारोहे " तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ” इति तस्य मोक्षविरोधित्वादिति भावः ॥ ९ ॥ मदागमनं तत्राह - चित्रकूटमिति । चित्रकूटमुपादाय चित्रकूटगमनमारभ्य। राज्याष्टः प्रच्युत इति मे मया श्रुतोऽसि ॥ १० ॥ स्वर्गारोहणस्य कः प्रसङ्ग इत्यत्राह - धरं मलं नाम उद्वर्तनादिसंस्काराभावाच्छररिजन्यम् । पङ्को नाम वनसञ्चाराच्छरीरलग्नमिति भेदः । विधिवदित्यनन्तरं उपगम्येति शेषः ॥ ५ ॥ रामोऽहमिति । सत्यविक्रम अक्षततपःस्वभाव ! ॥ ६ ॥ ७ ॥ त्वया क्रान्तः अधिष्ठितः । अत एव सनाथ इव स्वामिसहित इव, अभूदिति शेषः ॥ ८ ॥ प्रतीक्षमाण इत्यादि सार्धश्लोकस्य प्रातीतिकार्यः स्पष्टः । वस्तुतस्तु रावणवधार्य रघुकुलेऽवतीर्णस्य तब राज्यभ्रंशः, चित्रकूटमुपादाय तव चित्रकूटप्राप्तिमारभ्य में मया श्रुतः अत एव तद्बधार्थी भवाननेन मार्गेणागमिष्यतीति त्वामेव प्रतीक्षमाणस्सन्देहं त्वक्त्वा इतो देवलोके नारोहे परमपुरुषार्थस्वरूपत्वदर्शनस्य स्वर्गस्यान्तरायत्वादिति भावः ॥ ९-११ ॥ मत्प्रसादात्तेषु विहरस्व । वस्तुतस्तु मत्मसादात् मय्यनुग्रहात् । तेषु विहरस्वेत्यपि तान विशेषेण हर स्वीकुर्विति भगवति कर्मफलसमर्पण स०-महादेवः महेन उत्सवेन आदेवः अतिकान्तिमान् सुरेश्वरः । सर्वान् जितान् प्राप्तानाहेत्यन्वयः । आहेत्यनेन तन्निदिष्यासितब्रह्मलोकादिज्ञानं तस्यास्तीति तत्र साक्षित्वेनेन्द्रवचस उपयोग इति कविस्सूचयति । तन्निदिध्यासनाभावस्योक्त इति नागोजिमट्टीयं व्याख्यानं “ यं यं लोकं मनसा संविभाति ” “ यं यं वापि स्मरन् भावम्" इत्यादि श्रुतिस्मृतिविरुद्धत्वादसङ्गततरमिति द्रष्टव्यम् ॥ ११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy