________________
Shri Mahawan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
ददर्श । सप्तभूमिप्रवेशं त्वमेव धर्मवीर्येण पश्यामीति भावः ॥५॥स इति । स सुग्रीवः परमप्रीतः सन् राघवाय कृताञ्जलिः मूर्धा भूमौ न्यपतत् ।। शिरसा भूमि स्पृष्ट्वा प्रणनामेत्यर्थः । प्रलम्बीकृतभूषण इत्यनेन उदरास्पर्श उक्तः। अनेन भगवद्विषये प्रणामप्रकारः शिक्षितो भवति ॥६॥ रामानु०
स मूर्धा न्यपतभूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥६॥ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः । रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥७॥ सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८॥ येन सप्त महासाला गिरिभूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥९॥ अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणो पमम् ॥ १०॥ तमद्यैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम्। वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥११॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥ अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः। गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥ सर्वे ते त्वरितं गत्वा किष्किन्धा वालिनः पुरीम् । वृक्षरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १४ ॥ सुग्रीवो व्यनदद घोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगान्नाभिन्दन्निवाम्बरम् ॥ १५॥ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव ॥ १६॥ लम्बगतभूषणः प्रलम्बत्वमाप्तभूषण इत्यर्थः ॥ ६ ॥ ॥७-११॥ तत इति । लक्ष्मणानुमतमिति क्रियाविशेषणम् । भ्रातृगन्धिनं भ्रातृहिंसकम् । “गन्धनावक्षेपण-" इत्यत्र तथा प्रयोगात् । इति रामः सुग्रीवं प्रत्युवाचेति पूर्वेणान्वयः ॥ १२॥१३॥ सर्व इति । आत्मानम् स्वं स्वमित्यर्थः ॥ १४ ॥ सुग्रीव इति। ह्वानम् । आह्वानम् । गाढं परिहितः बलवृद्धये दृढबद्धपरिधानः ॥१५॥ भास्करोस्ततटादिवेति । यथा सूर्योस्ततटावतरनदृष्टरश्मिर्भवति तथेदानी किष्किन्धा इति । प्रविष्टः शरोत्तमः मुहूर्तेन पुनर्धरी मित्त्वा स्थाने तूणीरे पपातेति योजना ॥४॥५॥ प्रलम्बगतभूषणः प्रलम्बत्वंप्राप्तभूषणः ॥६-१२ ॥ भ्रातृगन्धिन गन्धस्सम्बन्धः। भ्रातृत्वमात्रेण सम्बन्धी नतु दानमानादिनेति भावः ॥ १३ ॥ १५ ॥ सुग्रीव इति । गाढं परिहितः वाससा दृढं संबीतः ॥१५॥ तमिति । भास्कर
For Private And Personal Use Only