SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagersun Gyanmandir टी.कि.को. पास. वा.रा.भ. निर्गमनं वालिनोल्पकालेन नाशहेतुरिति द्योतनार्थमस्ततटादित्युक्तम् । अस्मद्देशोदयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्यप्याहुः ॥ १६॥ ॥३७॥ रामानु०-भास्करोस्ततटादिवेति । अस्माकमुदयपर्वतः सिदपुरवासिनामस्तगिरिरिति तदपेक्षया अस्ततटादित्युक्तम् । “उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे" इत्यार्यभटोक्तेः । एतलोकानन्तरम् ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोघोरं बुधाङ्गारकयोरिव ॥ तलैरशनिकल्पेश्च वज्रकल्पैश्च मुष्टिभिः । जन्नतुः समरेऽन्योन्यं प्रातरी क्रोधमूञ्छितौ ।। इति ka ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोपोरं बुधाङ्गारकयोरिव ॥१७॥ तलैरशनिकल्पैश्च वजकल्पैश्च मुष्टिभिः । जघ्रतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूछितौ ॥ १८ ॥ ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥१९॥ यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान् बुद्धि मोक्तुमन्तकरं शरम् ॥२०॥ एतस्मिन्नन्तरे भनः सुग्रीवस्तेन वालिना। अपश्यन् राघवं नाथमृश्यमूकं प्रदुदवे ॥२१॥ क्लान्तो रुधिरसिक्ताङ्गःप्रहारैर्जर्जरीकृतः। वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥२२॥ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयादितः। मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ॥ २३ ॥ [निवृत्तः स्वपुरीं प्राप क्रोधा विष्टो महाबलः।] राघवोपि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ॥ २४ ॥ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥२५॥आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ २६॥ पाठफमः ॥ १६ ॥ ततः सुतुमुलमिति । बुधाङ्गारकाख्ययोहयोरिव ॥ १७॥ अशनिः मेघज्योतिः ॥ १८॥ तत इत्यादिश्लोकद्वयमेकान्वयम् । उभा वश्विनौ देवाविव स्थितौ तावुभौ समुदीक्ष्य सुग्रीवं वालिनं वा विशेषतो यन्नावगच्छत् ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्यन्वयः। N॥१९-२१॥ जर्जरीकृतः परुषत्वकृतः॥२२-२४ ॥ वसुधामवलोकयनिति लज्जानुभावः ॥ २५ ॥ आह्वयस्वति । दर्शयित्वा च विक्रममिति व्यति। अस्ततटादिव निष्पपात । मेरोरुत्तरवासिन अधिकृत्येदमुच्यते । अस्माकमस्तमयपर्वतो मेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तागरिरस्माकमुदयगिरिः । अतोऽस्तगिरेरपि भानोनिर्गमनं सम्भवति ।। १६-२५ ॥ आइयस्वेति । विक्रम सालभेदनम् ॥ २६ ॥ ॥३७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy