________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥३१॥
स.
अथ सुग्रीवो वालिवधक्षम रामबलं परीक्षितुकामस्तदलं दर्शयत्येकादशे-रामस्येत्यादि । पूजयाञ्चके अअलिबन्धादिना । प्रशशंस तुष्टाव ॥१॥२॥ पौरुषं बलम् । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥३॥ समुद्रादिति । “ब्राह्मे मुहूर्त उत्थाय" इति ब्राह्ममुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिन्नुत्थाय अनुदिते सूर्ये सन्ध्याकर्मकरणाथै पश्चिमात्समुद्रात्पूर्वसमुद्रं दक्षिणात्समुद्रादुत्तरं समुद्रं च व्यपगतकमः सन् कामति । इदं व्यक्तमुत्तरकाण्डे, तारः-
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥१॥ असंशयं प्रज्वलितैस्तीक्ष्णै मर्मातिगैः शरैः। त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥२॥ वालिनः पौरुषं यत्तद्यच्च वीर्य धृतिश्च या। तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥३॥ समुद्रात्पश्चिमात्पूर्व दक्षिणादपि चोत्तरम् । क्रामत्यनु दिते सूर्ये वाली व्यपगतलमः ॥ ४॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्क्षिप्य तरसा प्रति
गृह्णाति वीर्यवान् ॥५॥ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥६॥ "चतुभ्योपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥” इति । ननु कथं चतुर्वप्येकसन्ध्याकरणम् ? उच्यते; एक स्मिन् तटाके पावभेद इव नानाचमनाध्यप्रदानजपानां कर्तुं शक्यत्वात् ॥४॥रामानु-समुद्रादिति । अनुदिते सूर्य इत्युत्तरावधिरभिहितः । पूर्वावधिस्तु-" नाही मुहूर्त उत्थाय " इत्यनुष्ठानाङ्गत्वेन विहितः कालः । चतुःसमुद्रपरिक्रमणस्थानुष्ठानार्थत्वम् । “चतुभ्योंपि समुद्रेभ्यः सन्ध्यामन्बास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ इत्युत्तरश्रीरामायणोक्ततारवचनादवगम्यते ॥ ४ ॥ अग्राणीति कन्दुकानीवेति भावः ॥५॥ बहव इति । मक्षिकोत्सारणरीत्येति भावः । सारवन्तः स्थिरांशवन्तः
॥१॥२॥ रामेण बहुशः प्रतिज्ञातोपि वालिबधे श्रीरामं तत्सामर्थ्यजिज्ञातुं मत्वा स्वेन प्रत्यक्षानुभूतं वालिपौरुषं ज्ञापयितुमाह-वालिन इति । वीर्य शारीरबलम । यत्प्रसिद्ध वालिपराक्रमादिकं तच्छुत्वा अनन्तरं यत्कर्तव्यं तद्विधत्स्वेति मध्यवर्तितच्छब्द एव योजनीयः । ज्ञातव्यमेव प्रपक्षयति यच्छन्दसमीप वर्तितच्छब्दः पादपूरणार्यः । उत्तरत्र पुनस्तच्छब्दश्रवणात् ॥३॥ समुद्रादिति । अनुदिते सूर्य इत्युत्तरावधिरभिहितः । पूर्वावधिस्तु “ब्राह्म मुहूर्ते उत्थाय "
स० युगान्ते प्रलये दहेः । दहेदिति पाठे-युष्मद्योगेवि प्रथमपुरुषः “वं देवशक्त्यां गुणकर्मयोनौ रेतरूवजायां कविरादधेऽजः । " इतिवा सम्भवति । विस्तृतं चैतत्प्राक् ॥ २ ॥ अनुभूतनातूप्रमावस्प कर्मम चाल्यतो विझर्ति श्रृष्विति भातृपराक्रम कथयति-वालिन इति । पौरुषं शारीरयलम् । मम सकाशात ॥ ३॥
For Private And Personal Use Only