SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyanmandir सारो बले स्थिरांशे च " इत्यमरः ॥ ६॥ कैलासशिखरप्रभः तदाकार इत्यर्थः ॥७॥ वीर्योत्सेकेन वीर्यगर्वेण । दुष्टात्मा दुर्बुद्धिः । अतिक्रम्य । महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ७॥ वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः। जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ ८॥ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् । मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ९॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद्वचनं राज नसुरं कालचोदितम् ॥१०॥ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदा स्यति ॥११॥ शैलराजो महारण्ये तपस्विशरणं परम् । शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२॥ गुहाप्रस्त्र वणोपेतो बहुकन्दरनिर्दरः । स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥१३॥ तं भीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवदनमागच्छच्छरश्चापादिव च्युतः॥१४॥ ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ १५॥ ततः श्वेताम्बुदाकारःसौम्यः प्रीतिकराकृतिः। हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ १६ ॥ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ १७ ॥ तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ १८॥ जगाम । पूर्वकालो न विवक्षितः । आक्रामन् जगामेत्यर्थः ॥ ८॥९॥ समुत्थाय पुरुषवेषेणोत्थाय । १०॥ ११ ॥ परं तपस्विशरणं तपस्विनां । इत्यनुष्ठानाङ्गत्वेन विहितः कालः । चतुस्समुद्रपरिक्रमणस्यानुष्ठानार्थत्वम् " चतुभ्योऽपि समुद्रेभ्यः यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्त कम् ॥” इत्युत्तररामायणोक्ततारवचनादवगम्यते ॥ ४-३२॥ विष०-समुद्रमतिक्रम्य भविगणय्य । त तदधिष्ठातृदेवताम् ॥ स-रत्नाना सञ्चयो यस्मिन् सः । अथवा रत्नानि सधीपन्ते भनेनेति स्नसमयस्तम् ॥९॥ प्रीतिकराकृतिः नम्रतादिभिः प्रीतिकृदाकारः ॥१६॥ स०-तपस्वी शरणो व्यहम् इति पाठः । शरणगन्तृत्वेन शरणवान् । अर्शआपत् । शरणागत इति यावत् । तपस्विशरण येकपदरलेन कचित्पाठः ॥ १७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy