________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अपविद्धः ताडितः॥२७॥ कारणान्तरे मतङ्गशापनिमित्ते सति । वालिनो दुराधर्ष दुराक्रमम् ॥२८॥ वैरानुकथनं वैरकारणाख्यानम् ॥ २९॥ वालिन इति पञ्चमी ॥ ३०-३३ ॥ आत्मानुमानात् “आत्मवत्सर्वभूतानि " इति न्यायादित्यर्थः तारयिष्यामि, शोकसागरादिति शेषः ॥३४॥३५॥
तेनाहमपविद्धश्च हृतदारश्च राघव । तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा ॥ २७॥ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोस्मि दुराधर्ष वालिनः कारणान्तरे ॥ २८॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्त व्यसनं पश्य राघव ॥ २९॥ वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥३०॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥३१॥ अमोघाःमूर्यसङ्काशा ममैते निशिताः शराः। तस्मिन वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः॥३२॥ यावत्तं नाभि पक्ष्यामि तव भार्यापहारिणम् । तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ३३ ॥ आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे। त्वामहं तारयिष्यामि कार्म प्राप्स्यसि पुष्कलम् ॥ ३४ ॥ तस्य तद्वचनं श्रुत्वा राघवस्या त्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ॥१०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने दशमः सर्गः ॥१०॥ निष्कासयामास ॥ २६ ॥ अपविद्धः त्यक्तः॥ २७॥ कारणान्तरे मतङ्गशापनिमित्ते सति । वालिनो दुराधर्ष दुष्पापम् ॥ २८ ॥ वैरानुकथनं घेरकारणाख्यानम् M॥ २९-३३ ॥ आत्मेति । आत्मानुमानात " आत्मवत्सर्वभूतानि " इति न्यायात् । पुष्कलं सर्वम् । यद्वा श्रेष्ठमित्यर्थः ॥ ३४ ॥ ३५॥ इति श्रीमहेश्वरतीर्थ
विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डम्याख्यायाँ दशमः सर्गः॥१०॥ | सा-आत्मनोहितमिति । रामदर्शनक्षण एवं हितं स्वस्मै स्वसम्बन्धिजनाय च जातपाय मिति षष्टया स्पष्टयति । अन्यथा चतुर्थी श्रूयतेति ज्ञेयम् । यहा आत्मना स्वेन अहितम् एवं रामो वदिष्यति तर्कितं | वचः श्रुत्वा ॥ ३५॥
For Private And Personal Use Only