SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कार्येण केवलात्मप्रयोजनत्वेन । राक्षसैः क्रियमाणं भवतामिमं विप्रकारम् अपाकष्टुं निवर्तयितुंमया वनं प्रवेष्टव्यं प्रविष्टम् । “तयोरेव कृत्यक्तखलाः " इति । कर्मणि तव्यप्रत्ययः । स्वतो मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं प्रविष्टोऽस्मीत्यर्थः । शेषभूतरक्षणस्य शेषिप्रयोजनत्वादिति भावः ॥२२॥ तनि०-तपस्विनामतिशयेन विद्यमानतपसाम् । तापसानामृषीणाम् । आज्ञाप्योहमिति सौलायव्यञ्जनम् । केवलेनेति रक्षोभिः क्रियमाणं भवतामिमं विप्रकारम् अपात्रष्टुं निराकर्तुमेव वनं प्रवेष्टव्यमिति, प्रविष्टमिति शेषः ॥ २२ ॥ पितृवाक्यपरिपालनाय वनं प्रविष्टोसीति किंवदन्त्याः का गतिरित्यत्राह-पितुरिति । ‘विप्रकारमपाक्रष्टुं राक्षसै वितामिमाम। पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् । भवतामर्थसिद्धय मागतोऽहं यदृच्छया ॥ २३ ॥ तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ २४ ॥ तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् । पश्यन्तु वीयेमृषयः सभ्रातुर्मे तपोधनाः॥२५॥ अहं भवतामर्थसिद्धयर्थमागतोस्मि, यदृच्छया देवगत्या पितुर्निर्देशकरः वनमिदं प्रविष्टोस्मि । पितृवाक्यकरणव्याजेन भवदर्थसिद्धयर्थमेवागतो. स्मीति भावः ॥२३॥ तनि०-पितृवचनपरिपालनं तु व्याजमात्रमित्याह-पितुस्त्विति । भवतामेवार्थसिद्धयर्थं यदृच्छया नतु कर्मपारवश्येन ॥ २३ ॥ भवत्कार्यार्थ । मेवागतस्य मे बने वासो महाफलो भविष्यति ॥२४॥ तनि०-तस्यति । तस्य भवत्कार्यार्थमेवागतस्य मे वनवासस्तपस्विनां महाफलः, अतः तपस्विनां शत्रुन् रणे हन्तुमिच्छामीति योजनीयम् । महाफलं नाम अनिष्टनिवृत्तिपूर्वकेष्टप्राप्तिरूपम् ॥२४॥२५॥ तदेव फलमाह-तपस्विनामिति । तपस्विनां शत्रून रणे हन्तुमिच्छामि। प्रत्युत्तरमाह नैवमर्हथेत्यादिश्लोकचतुष्टयेन । आज्ञाप्यः आज्ञानुवर्ती । केवलेन निरुपाधिकेन कार्येण पितृवचनपरिपालनरूपेण प्रयोजनेन हेतुना अवश्यं मया वनं प्रवेष्टव्यमेव, अयमेव वनप्रवेशो देवगत्या राक्षसैः क्रियमाणं भवतामिमं विप्रकारमपाक्रष्टुमपि सम्पन्न इति अपेक्षितपदाध्याहारेण योज्यम् । उक्तश्लोकार्थ एव कविता धोकान्तरण वर्ण्यते । इयमपि शैली कवेः। अहं पितुर्निर्देशकरस्सन वनं प्रविष्टश्च भवतामर्थसिद्धयर्थ नाहमागतः ॥२२॥२३॥ तस्पेति । हन्तुमिच्छामीति यत अतो महाफलो भविष्यतीति तपस्विनः प्रोवाचेति पूर्वेण सम्बन्धः । वास्तवार्थस्तु तपस्विनामहमाज्ञाप्या, भक्ताधीनत्वादित्याशयः । किक्ष केवलेन कार्यण स्वकार्येण मया वनं प्रवेष्टव्यमिति काकुः । किन्तु राक्षसे क्रियमाणं भवता विप्रकारमपाक्रष्टुमेवेति सम्बन्धः । पितृवचनपरिपालनायागतः स्वयमिति न शङ्कनी। यम, तनु व्याजमात्रमित्याह-पितुरिति । भवतामेवार्थसिद्धयर्थं यदृच्छया, नतु कर्मपारवश्येन । अतस्तस्य भवत्कार्यार्थमागतस्य मे वनवासः तपस्विनां महाफल: तपस्विनी शत्रून रणे हन्तुमिच्छामीति यत् तेन महाफलो भविष्यति । महाफलत्वं नाम आश्रितानामिष्टप्रात्यनिष्टपरिहारहेतुत्वम् । इदानीं मुनिजनधैर्य For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy