________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
॥१८॥
मन्दाकिनी शरभङ्गाश्रमवाहिनी मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा ॥ १७॥ शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेनेत्याशय न वयं टी.आ.कां. स्वशरीरपीडातो भीताः किंतु महत्सु गरीयस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः-एवमिति । विप्रकारं निकारम् । “निकारो विप्रकारः स्यात् " ०६ इत्यमरः । स्वजनपीडा दुःसहेति भावः ॥१८॥ तत इति । शरणार्थ रक्षणार्थम् । समुपस्थिताः प्रपन्नाः। “गत्यकर्मक-" इत्यादिना कतरिक्तः॥१९॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् । क्रियमाणं वने घोरं रक्षोभिभीमकर्मभिः ॥१८॥ ततस्त्वां शरणार्थ च शरण्यं समुपस्थिताः। परिपालय नोराम वध्यमानानिशाचरैः ॥ १९॥ परा त्वत्तो गतिवीर पृथिव्यां नोपपद्यते । परिपालय नः सर्वान राक्षसेभ्यो नृपात्मज ॥२०॥ एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः॥ २१॥
नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम् । केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ २२॥ तनि०-शरण्यमिति निरुपपदेन सर्बलोकशरण्यत्वमुक्तम्, तेन तदुपयुक्तगुणाः स्वामित्वादयः पूर्वखण्डनारायणपदोक्ताः स्मारिताः । शरणार्थम् उपायान्तरस्थाने निवेश यितुमित्यर्थः । समुपागताः विश्वासाद्यङ्गसम्पत्तिपूर्वकरक्षाभरसमर्पणं कृतवन्तः। नः परिपालयेति गोतृत्वबरणोक्तिः। उत्तरार्धेन अनिष्टनिवृत्तिरूपफलप्रार्थना पर्यवसिता॥१९॥ परेति । त्वत्तः परा अन्या गतिः उपायः नोपपद्यते । पृथिव्यामिति सर्वभवनोपलक्षणम् । तथा च श्रुतिः " नान्यः पन्था अयनाय विद्यते " इति । इत्यूचुरिति पूर्वेणान्वयः॥२०॥ तनि०-उत्तरखण्डविवरणमाकिञ्चन्यमाह-परेति । वनः सिद्धोपापात्रा गतिः । यद्वा " नान्यः पन्था अपनाय विद्यते " इति। श्रुत्यर्थं मनसिकत्वाह परेति । पृथिव्यां नोपपद्यते । यस्मात्परिमितं फलमित्याधुक्तबहुदोषदुष्टत्वादिति भावः । नः सर्वानिति आत्मात्मीयसर्वसंग्रहः । राक्षसेय इति सर्वानिष्टोपलक्षणम् ॥२०॥ तपस्विनां प्रशस्ततपसाम् । तापसानां मुनीनाम् ॥२१॥ शरणागत्यैवाज्ञप्तोऽहं परिपालयेत्यादिकं वक्तुं नाईथ, केवलनात्म विप्रकारं बाधाम । न मृष्यामः सोलुमशक्ताः॥१८॥ स्वानुभूतां रक्षःपीडामनूद्य निगमयन्ति-तत इत्यादि श्लोकद्वयेन । प्रातीतिकार्थः स्पष्टः । शरण्यं सर्वलोकरक्षणस मर्थ त्वां शरणार्थ रक्षणार्थ समुपस्थिताः प्राप्ताः। नः कदावतीर्य रक्षिष्यतीति त्वामेव प्रतीक्षमाणानस्मानित्यर्थः ॥१९॥ अनन्यगतिकत्वेन सर्वात्मनात्वयैव रक्षणीया वयमिति विज्ञापयन्ति-परेति । पृथिव्यामिति सर्वलोकोपलक्षणम् । त्वत्तः परा त्वदन्या गतिः ऐहिकामुष्मिकसाधनं देवतान्तरं नास्तीत्यर्थः । “तमेवं विद्वानमृतइह भवति । नान्यः पन्था विद्यतेऽयनाय" इति श्रुतेः॥२०॥ एतदिति । तपस्विनामतिशयेन विद्यमानतपसाम् । तापसानाम् ऋषीणाम् ॥२१॥ श्रीरामः ऋषीन
For Private And Personal Use Only