________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समर्थो मुनिजनस्तद्रक्षणं कुत इत्याह-यदिति । यद्धर्मे तत्र धर्मे राज्ञः चतुर्भागः चतुर्थीशो भवति ॥ १४ ॥ एवं धर्माय प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे शरणागतिरेव रक्षणहेतुरित्याहुः - सोऽयमित्यादिना । स पूर्वोक्तवैखानसादिरूपः । ब्राह्मणाः भूयिष्ठाः अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्रियवैश्यवानप्रस्थसम्भवात् ब्राह्मणभूयिष्ठ इत्युक्तम् । यद्वा ब्राह्मणाः ब्रह्मविदः । " तदधीते तद्वेद ” इत्यण् । वानप्रस्थानां तृतीयाश्रमिणां गणः त्वं
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ॥ १५ ॥ एहि पश्य शरीराणि मुनीनां भावितात्मनाम् । हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ १६ ॥ पम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नाथो यस्यासौ त्वन्नाथः । अनाथवद्वाध्यते || १५ || तनि० - सोऽयं ब्राह्मणभूयिष्ठ इत्यनेन क्षत्रियवैश्यवानप्रस्थाश्व केचिदिह सन्तीति व्यज्यते । यद्वा ब्रह्मविद्राह्मणः । ब्राह्मणात्वादिपरमैकान्तिधर्मनिष्ठ इत्यर्थः । अत एव त्वन्नाथ इत्येकं पदम् । त्वमेव नाथो यस्य सः तेनानन्यशेषत्वमुक्तम् । तस्यैव नाथनीयत्वेनानन्यसाधनत्वानन्य भोग्यत्वे कथिते । अत एव महान् निरतिशयमहिमयुक्तः तथाविधोप्यनाथवदयं बाध्यते । अस्मतराभवो नाथ न तेनुरूप इति भावः ॥ १५ ॥ बाघामेव दर्शयन्तिएहीत्यादिना । दूरे सम्यङ् न दृश्यत इत्यत एहि पश्येत्युक्तम् । भावितात्मनां ध्यातात्मनाम् । बहुधा छेदनभेदनभक्षणादिभिः ॥ १६ ॥ तनि०- मुनीनां सर्वेश्वरमननपराणाम् । भावितात्मनां निदिध्यासननिष्ठानां हतानां शरीराणि पश्येति कारुण्यातिशयोत्पादनायोक्तम् । बहुधा हतानाम् अङ्गप्रत्यङ्गशस्त्र भिन्नानामस्माकं शरीराणि पश्येति व्यज्यते ॥ १६ ॥ हतानां बहूनामित्युक्तं विवृणोति - पम्पेति । अनुमन्दाकिनीमपीति "अनुर्लक्षणे " कर्मप्रवचनीयः । द्वितीयो भागः । “यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसचयम् । अन्नप्रदातुस्तस्पार्धं कर्तुश्चार्ध न संशयः ॥ " इति स्मरणात् ॥ १४ ॥ एवं राजसाधारणधर्माधर्मी प्रदर्श्य स्वकीयं विवक्षितमर्थं कथयन्ति सोऽयमित्यादिना । ब्राह्मणभूयिष्ठमित्यनेन क्षत्रियवैश्यवानप्रस्थाश्च केचिदिह सन्तीति गम्यते ॥ १५ ॥ रहीति । मुनीनां त्वन्मननशीलानाम् । भावितात्मनां निदिध्यासननिष्ठानां हतानां शरीराणि पश्येति कारुण्योत्पादनायोक्तम् । बहुधा हतानां प्रत्यङ्कं प्रत्युपानं च शस्त्रभिन्नाना मस्माकं शरीराणि पश्येति च व्यज्यते ॥ १६ ॥ पम्पेति तीरपरमेतत् । कदनं बाधा क्रियते, राक्षसैरिति शेषः ॥ १७ ॥
टी० त्राह्मणभूयिष्ठः भविषिष्ठः । त्वन्नाथः त्वमेव नाथो यस्य सः । एतेन अनन्यशेषत्वमुक्तम् । तस्यैव नाथनीयत्वेन अनन्यसाधनत्वानन्यभोग्यत्वे कथिते। अत एव महान् निरतिशयमहिमयुक्तः ॥ ११ ॥
For Private And Personal Use Only