SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir वा.रा.भू. साय एव चेतनस्य कृत्यम् , प्रार्थनं तु न कर्तव्यम् । हठात् कृतेपि क्षमापणं कर्तव्यमित्युक्तं भवति ॥ १०॥ स्वविषये रामेण रक्षणं स्वाभांविकमिति टी.आ.कां. दर्शयिष्यन्तः औपाधिकलौकिकराजरक्षणप्रकारं दर्शयन्ति-अधर्मस्वित्यादिना । यः प्रजाभ्यो बलिषड्भागं हरति हृत्वा च ताः न रक्षति तस्य महान् स०६ अधर्मः । बलिः करः।"भागधेयः करो बलिः” इत्यमरः । षष्ठो भागः पदभागः । लुप्तपूरणो निर्देशः । बलिश्चासौ षड्भागश्च बलिषदभागः ॥१३॥ अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः। यो हरेलिषड्भागं न च रक्षति पुत्रवत् ॥११॥ युआनः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव । नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः ॥ १२॥ प्राप्नोति शाश्वती राम कीर्ति स बहुवार्षिकीम् । ब्रह्मणःस्थानमासाद्य तत्र चापि महीयते ॥१३॥ यत्करोति परं धर्म मुनिर्मूलफलाशनः । तत्र राज्ञश्चतुर्भागःप्रजा धर्मेण रक्षतः ॥१४॥ एवमरक्षणे प्रत्यवायमुक्त्वा रक्षणेभ्युदयमाहुः-युनान इति । युनानो यतमानः । नित्ययुक्तो नित्यावहितः । सर्वान् स्वविषयवासिनः स्वकी यान प्राणानिव प्राणैः प्राणेभ्योऽपि इष्टान् सुतानिव च यो रक्षति स महीपतिः बहुवार्षिकी बहुकालस्थायिनी शाश्वतीम् अनुवृत्ताम् । “मुहुः पुनःपुनः शश्वत्" इति बाणः। भवाथैण ततो डीप् । कीर्ति प्राप्नोति । ब्रह्मणः स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च ॥ १२॥ १३॥ यस्तु करप्रदाना किश्चिदुच्यते तत्त्वया क्षन्तव्यमिति भावः ॥१०॥ जगद्रक्षणायावतीणों रामोऽस्मानपि रक्षिष्यतीति विज्ञायाप्याय॑तिशयालोकरीत्यनुसारेण राजधर्म विज्ञापयन्ति-IN अधर्म इति । सर्वान्विषयवासिन इत्युत्तरलोकगतमत्रापि सम्बध्यते । तान् पुत्रवद्योन रक्षात तेभ्यो बलिषड्भागम् बलिः करः षष्ठो भागः पाइभागः सचासौ पडभागश्च तं गृहाति तस्य महानधर्मः ॥ ११ ॥ एषमरक्षणे अनिष्टमुक्त्वा रक्षणे अभ्युदयमाहुः-युञ्जान इति श्लोकद्वयेन । युञ्जानः प्रजारक्षणे यतमानः । नित्ययुक्तो नित्याव हितः ।सर्वान विषयवासिनः । स्वकीयान प्राणानिव । प्राणेः प्राणेभ्योपि । पञ्चम्यर्थे तृतीया।इष्टान् सुतानिवच रक्षन सन् ऐहिकामुष्मिकफलं प्रानोति ॥१२॥१३॥ रक्षकस्य राज्ञः करषदमागमुक्त्वा धर्मादपि भागप्राप्तिप्रकारमाहुः-यदिति । ननु कचित् षष्ठो भाग उच्यते, अत्र चतुर्थो भागो भण्यते, कचिद्वितीयो भागः पठचते तत्कथमिति चेत् ! उच्यते-उपवासिमिक्षाहारजनकृतधर्मात षष्ठो भागः, राजपरिपालितदेशसम्भूतफलाशिनो धर्माचतुर्थों भागः, तदनपानपुष्टाङ्गजनस्य धर्मात स०-शाश्वती बटुकालसम्बन्धिनीम् । बवार्षिकी बड़ी च सा वार्षिकी च रक्षकसम्बन्विनी तां कौत्तिं प्राप्नोतीत्यन्वयः । “ वार्षिक प्रायमानं स्पाइर्षाकालभवेन्यवत् " इति विश्वः ॥ १३ ॥ N ॥१७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy