________________
Shri Mahavir Jan Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
नियमाद्ययाङ्गयोगो येषां ते दृढयोगाः। समाहिताः योगकाग्रचित्ताः एवंभूतास्तापसा राममभिजग्मुरित्यन्वयः । मुनिवैविध्योक्तिदर्शनीयत्वाय । अत्रा भिजग्मुरित्यनेन शरणागतिरुक्ता ॥६॥७॥ इक्ष्वाकुकुलस्य प्रधानः पृथिव्याश्च नाथः। प्रथम दृष्टान्तः देवानामिति । यथा देवेन्द्र इति शकस्य नाम तथा रघुपतिरिति तब नामेत्यर्थः ॥ ८॥ यशसा शरभङ्गानुग्रहकीया । विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवस्सुवोंकेषु विश्रुतः प्रसिद्धः।।
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ ८॥ विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च । पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥९॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ १० ॥ पितृभक्तिस्त्वयि पुष्कला तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् । सत्यं सत्यवचनं च त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञातस्याभञ्जनात् । धर्मश्च त्वयि पुष्कलः शरभङ्गानुग्रहात् ॥ ९॥ धर्मज्ञं धर्मवत्सलमित्युक्तानुवादः । अर्थिनी याचकास्तेषां भावोऽर्थित्वं याच्नेत्यर्थः । सा च रक्षोनिरसनविषया तया त्वां किञ्चिद्वक्ष्यामः तत् क्षन्तुमर्हसि आर्ततया त्वदग्रगमनमेव कार्यसाधनम्, आर्त्यतिशयेन विज्ञापनं तु क्षमस्वेत्यर्थः । एतेन उपायत्वाध्यव ताना स्वेषामनन्यगतिकत्वं जगद्रक्षणायावतीर्णस्य श्रीरामचन्द्रस्य सर्वलोकशरण्यत्वञ्च निश्चित्य स्वरक्षणार्थ तस्य दयोत्पादकानि वाक्यानि मुनयो विज्ञापयन्ति अभिगम्पेत्यादिना परिपालय नस्सर्वानाक्षसेभ्यो नृपात्मजेत्यन्तेन अन्यसन्दर्भण । समाहिताः सावधानाः ॥ ७ ॥ त्वमित्यादिश्लोकद्वयस्य । Kातीतिकार्थः स्पष्टः । वस्तुतस्तु-देवानां मघवानिव इक्ष्वाकुकुलस्य इक्ष्वाकुकुलमात्रस्य पृथिव्याश्च पृथिवीमात्रस्य च प्रधानो नाथस्त्वमिति काकुः । किन्तु
जगद्धारणपोषणकर्ता अत एव निरवधिकेन यशसा विक्रमेण च त्रिषु लोकेषु सर्वलोकेषु विश्रुतः, सकलोकाधीश्वर इति शेषः । तथापि क्षत्रियरूपेणावतीर्ण त्वाल्लोकशिक्षार्थम् । पितृव्रतत्वं पित्रर्थ व्रतं यस्य पितृवतः तस्य भावस्तत्त्वं, पितृवचनपरिपालकत्वमिति यावत् । सत्यं सत्यवचनत्वं पुष्कलः अधिको धर्मश्च त्वय्य स्तीत्यर्थः ॥ ८॥९॥ त्वामिति । धर्मज्ञं शरणागतरक्षणरूपं धर्म जानातीति तथोक्तम् । धर्मवत्सलं तादृशधर्मानुष्ठाननिरतम् त्वामासाद्य शरण्यत्वेन प्राप्य अधित्वात अर्थो रक्षणविषयमारना तद्वन्तोऽधिनः तेषां भावस्तत्त्वम् । हे नाथ सर्वलोकप्रार्थनीय ! वक्ष्यामः किविद्विज्ञापयिष्यामः । नः अस्माकं तन विज्ञापन रूपापराध क्षन्तुमर्हसि । यद्यपि “ सत्सु कार्यवता {सामलमेवाग्रतः स्थितिः" इति न्यायेन त्वयि शरणागतिमात्रमेव कार्यसाधनम् । तथाप्यायलिशयेन
सत्य-यशसा विक्रमेण र विश्रुतः । यास्त्री विक्रमी चेति प्रसिद्ध इत्यर्थः । त्वयि विक्रमेणापि बिरुद्धः क्रमः । कनिष्टराज्यप्रदानरूपस्तेनापि त्यागहेती सत्यतीति पाइन् । पितृवता वित्रनुमतः विश्रतमिति विपरिणामेनान्वयः । यहा हे पितृमत त्वं विश्रुत इत्पन्श्यः (पितृव्रतवं मत्यं च इति पाठः) ॥९॥
For Private And Personal Use Only