________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. किरणान् प्रवेशयन्तो विवृतास्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकुट्टाः। पत्राहाराः पर्णाशनाः ॥२॥ दन्ता एवोलूखलं तदेषामस्तीतिटी .आ.का. ॥ १६॥ दन्तोलूखलिनः, दन्तरेख बाह्यादितुषनिर्मोकं कृत्वा भक्षयन्त इत्यर्थः । उन्मज्जकाः शिरोमात्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते गात्र स०६
शय्याः। उरसि पृष्ठेउँसयोर्वा शिरः कृत्वा शयाना इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्तिः । अशय्याः अनम्रगात्रा इत्यर्थः । अभावका
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ ३ ॥ मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ ४॥व्रतोपवासिनो दान्तास्तथाईपटवाससः। सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः॥५॥ सर्वे ब्राहया श्रिया जुष्टा दृढयोगास्समाहिताः । शरभङ्गाश्रमे
राममभिजग्मुश्च तापसाः॥६॥ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् । ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः॥७॥ शकाः वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः॥३॥ सलिलाहाराः सलिलमात्राहाराः। वायुभक्षाः वायुमात्रभक्षाः। आकाशे वृक्षायादौ निलीयन्त इत्याकाशनिलयाः। स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति स्थण्डिलशायिनः॥४॥ व्रतोपवासिनः व्रतोपवासनिरताः, सर्वाहारशून्या इत्यर्थः । आईपटवाससः आईपटवसनशीलाः । सजपाः सदा जपशीलाः । तपोनित्याः “स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः" इत्युक्तसदास्ता ध्यायपारायणरूपतपोनिष्ठाः । पञ्चतपोन्विताः ग्रीष्मे पञ्चानिमध्यस्थाः॥५॥ ब्राहया श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मवर्चसेन दृढः परिपक्वः योगो यम तथा । पत्राहाराः जीर्णपर्णाशनाः ॥२॥ ये व्रीह्यादीन् दन्तै खण्डयित्वा भक्षयन्ति ते दन्तोलूखलिनः । उन्मजकानाम कण्ठदन्नजले स्थित्वा तपः कुर्वन्तः । उन्मत्तका इति पाठे-उद्गतः मत्तो मात्सर्य येषां ते तथा । स्वार्थे कः । यद्वा ज्ञानिनः ' बालोन्मत्तपिशाचवत् ' इति स्मरणात्तथा । गात्रशय्यास्तु केवलं स्थले गारेव ये शेरते ते तथा । ये केचिदपिन शेरते ते अशय्याः । अभावकाशकाः ये वातातपवर्षेषु अभावकाशे असंवृतदेशे तपश्चरन्ति ते तथा । अभ्यवकाशिन इति पाठे-अभ्यवकाशिनः सदाजाप्रत्स्वभाविनः । आकाशनिलयाः आकाश एवं वायुधारणबलेन ये निलीयन्ते ते तथा । ये कुशाद्यावृतभूतल शरत ते स्थाण्डिलशायिनः ॥ ३ ॥ ४ ॥ व्रतोपवासिनः व्रतोपवासनिष्ठाः । आईपटवाससः आईपट एव वासः आच्छादनं येषां ते तथा । तपोनित्याः
तपो हि स्वाध्यायः" इति श्रुतेः सदा अध्ययननिष्ठा इत्यर्थः । पञ्चतपोन्विताः पचाग्निमध्यसमाचरिततपस्का इत्यर्थः ॥ ५ ॥६॥ रक्षःपरिपीडि) MT स०-दृढयोगसमाहिताः दृढं योगस्समाहितो येषु । यहा दृढं योगाः अणिमादयो वा समाहिता येषु । यहा दृढयोगाः अत्यन्तसम्बन्धवन्तः पुत्राइयो बान्धवाश्च तैस्समा अहिता येषां ते । “सुहृन्मित्रायुदासीनः" इत्यादेः समबुद्धय इति यावत् ॥ ६॥
॥१६॥
Th
For Private And Personal Use Only