________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एनान् ब्रह्म गमयति" इत्युक्तं ब्रह्मात्मकं लोकम् ॥४२॥४॥ स इति । अब पितामहशब्दोऽपि सविग्रहपरमात्मपरः। सर्वमिदं शरभङ्गस्य रामसानिध्य प्रतीक्षया व्यज्यते । अस्मिन् सर्गे चतुश्चत्वारिंशच्लोकाः॥४४॥ इति श्रीगो श्रीरा० रनमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चमः सर्गः ॥२॥ एवं खरवधार्थिमुनिजनशरणागति वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वकुमुपक्रमते-शरभङ्ग इत्यादि। शरभङ्गे दिवं ।
स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागत मित्युवाच ह ॥४४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चमः सर्गः ॥५॥ शरभङ्गे दिवं याते मुनिसद्धाः समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ 1 ॥ वैखानसा वाल खिल्यास्सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्ताहाराश्च धार्मिकाः ॥२॥ यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मिलिताः॥३॥ वैखानसा इत्यादि । “ये नखास्त वैखानसाः ये वालास्ते वालखिल्याः" इत्युक्तरीत्या भगवनखरोमजाता ऋषयः। सदा शरीरं संप्रक्षालयन्तीति संप्रक्षालाः। मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति मरीचिपाः । सदान्तः " वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषकक्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशना (म्बु) दिभिः । " इति वचनारपछरभङ्गस्याग्निप्रवेशम्समनस इति ॥३८-४४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥ शरभङ्ग इति । मुनिसङ्काः काकुत्स्थं ककुत्स्थान्वयेऽवतीर्ण ज्वलिततेजसं रामं " रमन्ते योगिनोऽनन्ते " इति श्रुतेः परं ब्रह्म अभ्यगच्छन्त द्रष्ट किनिद्विज्ञापयितुं चेति शेषः । अयं भाव:स्वप्रकाशं परं ब्राह्मैव ककुत्स्थान्वयेऽवतीर्ण सद्भाग्यवशेनास्मदृष्टिगोचरोऽभूत अतोस्मत्तपोदानादिकमद्यफलितमिति दर्शनानन्देन कृतार्थीभवितुं निर्धनस्य धनलामे यथा तद्वदानन्दनिर्भरा मुनिसहा नानादिग्भ्यः समागता इति ॥१॥ वैखानसादयस्तपोविशेषलब्धसंज्ञास्तापसविशेषाः । यद्वा ब्रह्मणो नखजाता वैखानसाः। केशजाता वालखिल्याः “ये नखास्ते वेखानसाः ये वालास्ते वालखिल्याः" इति श्रुतेः । यद्वाविखनसमनिना प्रोक्तं सूत्रमधिकृत्य तन्मार्गानुसारिणो वैखानसाः । वालखिल्यास्तु नवेऽने लब्धे पूर्वसञ्चितत्यागिनः । सम्प्रक्षालास्तु भवगतः श्रीपादप्रक्षालनजाता महर्षयः । यद्वा प्रत्यहं जीवनसाधनं सम्पाद्य सर्व तद्विनियुज्य वर्त्तन्ते ये ते वा सम्प्रक्षालाः, अश्वस्तनिका इत्यर्थः । मरीचिपाश्चन्द्रिकापायिनः । अश्मकुद्रास्तु भक्षणार्थ प्रियङ्ग्वादीनश्मन्येव कुट्टयन्तीति • अस्य श्रवणफलम् । स्कान्दे-" शरभङ्गाश्रमप्रामपुरुहूतसमागमम् । दर्शनं शरभङ्गस्य रघुनाथस्य पूजनम् । शृण्वन्तो मरुतां लोकं प्राप्नुवन्ति न संशयः ॥” इति ।
For Private And Personal Use Only