________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आनन्तर्यम् अनन्तरम् । स्वाथें ष्यम् । तव सुखं विधास्यामि । स्वल्पापराधे प्रबलवैरं तेन कृतं चेत्तमयेव हत्वा तव सुखं विधास्यामि । अनल्पापराधे स्वल्पवैरं चेत्समाधानमुखेन सुखं विधास्यामीति भावः ॥ १२॥ रामानु-संभधार्य चलावलं गुणदोषी विचार्य । आनन्तर्यम् अनन्तरप्राप्त कर्म । तब मुखं यया भवति | तथा विधास्यामि हि विधास्याम्येव । गहितमगहित वा तवाभिमतं करिष्याम्यवेत्यर्थः ॥ ४२ ॥ अपराधस्वल्पत्वपक्ष आह-बलवानिति । प्रावृषि वेगः प्रावृड़ेगः ॥१३॥
बलवान हि ममामर्षः श्रुत्वा त्वामवमानितम् । वर्तते हृदयोत्कम्पी प्रावृड़ेग इवाम्भसः ॥४३॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः । सृष्टश्च हिमया बाणो निरस्तश्च रिपुस्तव ॥४४॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षमतुलं लेभे चतुर्मिः सह वानरैः ॥ ४५॥ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणंतत्त्वमाख्यातुमुपचक्रमे॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे अष्टमः सर्गः॥८॥ वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः। पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥१॥ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरी राज्ये कृतः परमसम्मतः॥ २॥ राज्य प्रशासतस्तस्य पितृपैतामह
महत् । अहं सर्वेषु कालेषु प्रणतः प्रेष्यवस्थितः ॥३॥ वालिवरस्वल्पत्व आह-दृष्ट इति । दृष्ट इत्यनेन वालिहननानन्तरं शोकं मा कुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यवाह-मृहूँ इति । यदा वाणो विसृष्टस्तदेव रिपुर्नष्ट इत्यवेहीत्यर्थः॥४४॥४५॥ लक्ष्मणाग्रजे इति निमित्तसप्तमी । तन्निमित्तमित्यर्थः ॥४६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः॥ ८॥ अथ वाल्यपराधवृत्तान्तो नवमे-वाली नामेत्यादिषइविंशति श्लोकाः॥१॥ पितरीति । अयं ज्येष्ठः। अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः॥२॥ पितृपैतामहं स्वपितुः ऋक्षरजसः पित्रा ब्रह्मणा तस्मै कर्म तव सुखं यथा तथा विधास्यामि हीति सम्बन्धः ॥ ४२ ॥ ४३ ॥ विनन्धः निर्विशङ्कः ॥४४-४६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायां किष्किन्धाकाण्डव्याख्यायाम अष्टमस्सर्गः ॥८॥१॥२॥ राज्यमिति । पितृपैतामहम् ऋक्षरजसः ब्रह्मणा पित्रा तस्मै दत्तत्वात्पैतामहत्वम् ॥३॥
For Private And Personal Use Only