________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
| स०८
बन्धनेषु कारागृहेषु ॥ ३३ ॥ रामानु-बन्धनेषु । वध्यतेऽस्मिन्निति बन्धनम् कारागारम् ॥ ३३ ॥ ३४ ॥ एतया शड्या वालिप्रयुक्तत्वशक्या । भीतः नोपसमि
टी.कि.को. नोपासर्पम् । भये भयनिमित्ते ॥ ३५ ॥ रामानु०-दे राघव ! अहम् त्वामपि परमकारुणिकं त्वामपि दृष्ट्वा एतया शङ्कया वालिप्रयुक्तत्वशङपा भीतः । अत एवाहा
हता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी। सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥३३॥ यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव । बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४॥ शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव । नोपसपोम्यहं भीतो भये सर्व हि बिभ्यति ॥ ३५॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारया म्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥३६॥ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः। सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३७॥ संक्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्धाता वाली विश्रुत पौरुषः ॥ ३८ ॥ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् । सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥३९॥ एष मे राम शोकान्तः शोकार्तेन निवेदितः। दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः॥४०॥ श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् । किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥४१॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तर्य विधास्यामि सम्प्रधार्य बलाबलम् ॥ ४२॥ नोपसर्पामि । भूते लट् ॥ ३५ ॥ केवलम् अद्वितीयं यथा तथा ॥ ३६॥ केवलत्वमुपपादयति-एते हीति । गन्तव्ये मयि गच्छतीत्यर्यः ॥ ३७ ॥ संक्षेप इत्यादिद्वयम् । तद्विनाशादनन्तरं मे दुःखं प्रनष्टं स्यात् मे सुखं मे जीवितं चैव तद्विनाशनिबन्धमित्येष सङ्केप इत्यन्वयः ॥ ३८॥ रामानु-सख्यकरणा दिना लब्धमपि सुखादिकं न लब्धप्रायमिति भावः ॥ ३८॥ ॥३९-४१॥तव वैरस्य कारणं श्रुत्वा बलाबलं सम्प्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य। वन्धनेषु बध्यन्ते अस्मिन्निति बन्धनं कारागारम् । तत्र संयताः बद्धाः ॥ ३३ ॥ ३४ ॥ एतया शङ्कया वालिप्रयुक्तत्वशङ्ख्या नोपसमि नोपासर्पम् । भये भय निमित्ते ॥ ३५ ॥ तर्हि कय जीवसीपत माह-केवलं हीति ॥ ३६-४१॥ सुख हीति । वरस्य कारणं श्रुत्वा सम्प्रचार्य बलाबलं गुणदोषी विचार्य । अनन्तरम् अनन्तरप्राप्त
॥२७॥
For Private And Personal Use Only