________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इति पत्रिण इत्युक्तं विशेष्यते। महेन्द्रपदेनाशनेस्तत्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावेगत्वादिविशिष्टा हि । अतः एतैः शरैर्वालिनं विनिहतं पश्येति सम्बन्धः ॥ २२--२४ ॥ वाहिनीपतिः वानरसेनाधिपतिः ॥ २५ ॥ रामेति । वयस्य इति, वयस्य इति चेत्यर्थः । त्वयित्वत्समीपे ॥२६-२८॥ भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्विषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥२५॥ राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः। वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥२६॥ त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतःप्राणैर्वहुमतः सत्येनापि शपामि ते ॥२७॥ वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् । दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ॥२८॥ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥ २९ ॥ बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥३०॥ सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥३१ ॥ पुराहं वालिना राम राज्यात्
स्वादवरोपितः। परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३२ ॥ एतावदुक्त्वा 'पुराहं वालिना इत्यादि वक्तुकामस्तदुपोद्घातत्वेन "दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः।" इत्येतावदुक्त्वा । शक्रोति अशकोत्॥२९॥ रामानु-अत्र पुनःशब्दोऽध्याहर्तव्यः । एतावदुक्त्वा वचनम् । "राम शोकाभिभूतोह'मित्यारभ्य 'मनो हरति नित्यशः" इत्येतदन्त वचनजातं पुनरुक्त्वा । उच्चैर्भाषितुं न शक्नोतीति सम्बन्धः ।। शनोतीति भूते लट् ॥ २९ ॥ बाष्पवेगमिति । रामसन्निधाविति मा प्रत्युपदिश्य स्वयं न शक्नोतीति रामो मन्येतेति भिया धारयामासेति भावः ॥ ३० ॥1 ॥ ३३ ॥ स्वादाज्यात् यौवराज्यात् । निर्धूतः ॥३२॥ पतावदिति । अत्र पुनश्शब्दोऽध्याहर्तव्यः । एतावदुक्त्वा वचनं 'राम शोकाभिभूतोहम्' इत्यारभ्य 'मनो हरति नित्यशः' इत्येतदन्तं वचनमुक्तवा पुनरुच्चै| र्भाषितुं न शक्रोति नाशक्रोदिति सम्बन्धः ॥२९-३१॥ निर्धतः निष्कासितः ॥३२॥ स०-भवरोपितः अपहृताधिकारः । परुषाणि निगुरवांसि । संश्राव्य श्रावपित्या निधूतोस्मि ॥ ३२ ॥
For Private And Personal Use Only