SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भू. ॥२६॥ सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयम् । द्वितीयरामपदमभिरामार्थकम् । प्रसन्नमुदधिं यथा तद्वत प्रसन्नं गम्भीरमित्यर्थः ॥१५॥ रामानु-अत्र द्वितीयोगटी.कि.का. रामशब्दोऽभिरामवचनः । क्रियाविशेषणं वा ॥ १५ ॥ ॥१६-१८॥हे सर्वलोकाभयङ्कर ! वालिनः सकाशात् भयार्तस्य मे ममापि अत्यन्तभाग्यहीनस्यापि स०८ सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा । फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ १५॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा। उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥१६॥ अहं विनिकृतो भ्रात्रा चराम्येषभयादितः। ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥ १७॥ सोऽहं त्रस्तोभये मनो वसाम्युभ्रान्तचेतनः। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८॥ वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥१९॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः। प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥२०॥ उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २१॥ इमे हि मे महावेगाः पत्रिण स्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २२ ॥ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः । सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ २३॥ प्रसादं कर्तुमर्हसि ॥ १९॥रामानु०-चालिन इति । सर्वलोकाभयङ्कर अत एव ममाप्यभयङ्कर ! वालिनो भयार्तस्य मे प्रसादं कर्तुमर्हसि । सखित्वेन मह्यं विशेषतः प्रसादः कर्तव्य इत्यभिप्रायः ॥ १९ ॥ एवमिति । प्रहसन्निव पूर्वमेव प्रतिज्ञातेऽपि चापलातिशयात् पुनः प्रार्थयत इति मन्दस्मितवानित्यर्थः॥२०॥ उपकारेति। अरिलक्षण मित्यनन्तरम् अत इत्युपस्कार्यम् ॥२१ ॥ पत्रिणः प्रशस्तपत्रिणः । तिग्मतेजसः क्रूरतेजसः। कार्तिकेयवनोद्भूताः शरवणोद्भूताः। कङ्कपत्रप्रतिच्छनाः ॥२६॥ सुखोपविष्टमित्यादिश्लोकद्वयमेकं वाक्यम् । अत्र द्वितीयो रामशब्दोऽभिरामवाचकः ॥ १५-१८॥ वालिनः इति पञ्चमी ॥ १९-२१ ॥ पत्रिणः प्रशस्तपत्राः । कार्तिकेयवनोद्भूताः शरवणोत्पत्राः ॥ २२ ॥ सुपर्वाणः निशितग्रन्धयः ॥ २३-२८॥ मा-आपिनो मावः आपित्वम्, प्राप्तिरित्यर्थः । मम ममतवा आपित्वं यस्य तं प्रसादम् । मे मत्सम्बन्धिनो बालिन इति वा ॥१९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy