SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir भूयिष्ठम् अतिशयन । आत्मवताम् आत्मज्ञानिनाम् ॥ ६ ॥ साधूनां मित्राणां साधवो मित्राणि ॥ ७ ॥ ८ ॥ तथाविधं स्वस्नेहसदृशं खेहं दृष्ट्वा स्थितस्य वयस्यस्य वयस्यार्थे धनत्यागादयः प्रवर्तन्त इति योजना । अनया सुग्रीववचनभङ्गया आवाभ्यामेवं वर्तितव्यमिति व्यवस्था द्योत्यते ॥ ९ ॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतामिव ॥ ६ ॥ रजतं वा सुवर्ण वा वस्त्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोपि वा । निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ८ ॥ धनत्यागः सुखत्यागो देहत्यागोपि वा पुनः । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९ ॥ तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥ स ददर्श ततः सालमविदूरे हरीश्वरः । सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥ तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् । सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १३ ॥ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् । सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ॥ लक्ष्म्या कान्त्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत इति सम्बन्धः । अनेोक्तार्थे लक्ष्मणानुमतिद्यतिता ॥ १० ॥ रामानु०- लक्ष्मणस्तेजोविशेषेण वासव सदृश इत्यर्थः ॥ १० ॥ स्थितं भूषणग्रहणकालात्प्रभृति तिष्ठन्तमित्यर्थः । लोलं चक्षुरपातयदिति । समीचीनशाखालाभार्थं सर्वत्रान्वेषयामासेत्यर्थः ॥ ११ ॥ ईषत्पत्राव्यमिति पवल्ल प्रचुरमित्यर्थः ॥ १२ ॥ पर्णबहुल पल्लव बहुलाम् ॥ १३ ॥ रामानु०- तस्येति । आस्तीर्यति पुनरासनप्रदानकथनेन अयं परेद्युवृत्तान्त इत्यवगम्यते ॥ १३ ॥ ताविति । विनीतम् एकासने स्थितिमनङ्गीकुर्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ १४ ॥ टी०-महात्मनां विमहान्तःकरणानाम् आत्मवतो प्रशस्तबुद्धीनाम् ॥ ६ ॥ अमितानि स्वेन तुल्यानि ॥ ४९ ॥ तत्तथेति । लक्ष्म्या कान्तिविशेषेण युक्तः रामः । इवशब्दो वाक्या लङ्कारे । वासवस्य वासवसदृशस्येत्यर्थः । लक्ष्मणस्याग्रतः सुग्रीवमब्रवीदिति सम्बन्धः ॥ १० ॥ अपातयत् प्रसारितवान् ॥ ११ ॥ ईषत्पन्नाचं पठवसङ्कुलम् ॥ १२ ॥ | शाखामास्तीयेंति । पुनरासनप्रदानेन अयं परेद्युर्वृत्तान्त इत्यवगम्यते । १३ ।। १४ ।। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy