SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥२५॥ स०८ एवमिति । एकान्तसंपृक्तो एकान्ते रहसि संयुक्तो एकान्तं नियतं यथा तथा संयुक्तो वा । प्रभाषताम् । व्यत्ययेन परस्मैपदम् । अडभावश्च किका ॥२४॥ पहेति स्पष्टम् ।। २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तमः सर्गः ॥७॥ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥ एवमेकान्तसंप्टक्तो ततस्तौ नरवानरौ। उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥ २४ ॥ महानुभावस्य वचो निशम्य हरि राणा मृषभस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदास्वकार्य हृदयेन विद्वान् ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः ॥७॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ १॥ सर्वथाऽहमनुग्राह्यो देव तानामसंशयः । उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥२॥ शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ । सुरराज्य मपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥३॥ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्यानिसाक्षिकं मित्रं लब्धं राघववंशजम् ॥४॥अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। नतु वक्तुं समर्थीहं स्वयमात्मगतान गुणान् ॥५॥ अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे-परितुष्ट इत्यादि ॥ १॥ देवतानामनुग्राह्यः दयनीयोऽभवम् । यस्य मे भवान् सखाऽऽसीत् । कीदृशः सखा ? उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोपपत्रः ॥२॥ शक्यमित्यादि चतुश्चत्वारिंशत् ॥३॥ सभाज्यः पूज्यः ॥ ४॥५॥ पवमिति । प्रभाषताम् । अडभावः, परस्मैपदमार्षम् ॥ २४ ॥ स्वकार्य वालिवधरूपकार्यम् ॥२५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥ * सर्गश्रवणफलम् । स्कान्दे-" राममुग्रीवसंताप श्रुत्वा दुःखादिमुपते ॥” इति । ॥२५॥ ॥१-३॥ सोहमिति । सभाज्यः पूज्यः, भजनीय इत्यर्थः ॥ ४ ॥५॥ स-परितुष्टः तुएं तोषः । मात्र कः । परि उपरतं तुष्टं यस्य स परितुष्टः । तुरण्यर्थे । तादृशोपि तेन रामेण .. वाक्पेन हर्षितः । “पार स्यात्सर्वतोमा " इत्यारभ्य-"दोषाल्याने पुपरमे व्याप्ती निवसनेपि च । " इति विश्वः ॥ १॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy