________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति ढक् । तस्य पापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य । निलयं वासस्थानम् । सामर्थ्य शक्तिम् । विक्रमं वा सर्वथा न जाने । किञ्चि दपि न जानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुद्धयते । वक्ष्यति वानरप्रेषणावसरे- “ द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैर्देवैस्तं मार्गध्वं समन्ततः ॥ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ " इति । तत्र हि रावणस्य निलयसामर्थ्यं
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम । करिष्यामि तथा यत्नं यथा प्राप्यसि मैथिलीम् ॥ ३ ॥
पराक्रमाः सुग्रीवेण स्पष्टमवगता इति गम्यते । सत्यम् । तथापि स्वकार्ये प्रथमं प्रवर्तयितुमेवमुक्तवान् सुग्रीवः । अत एव "ब्रूहि सुग्रीव कं देशं हियन्ती लक्षिता त्वया" इत्यस्यापि प्रतिवचनं नोक्तवान् । कथं गमनदेशमपि न जानीयात् ? य एवमाह “हियमाणा मया दृष्टा" इति । न चैवमादावेव मित्रद्रोहः । कृतः स्यादिति वाच्यम्, दूरदर्शिना सुग्रीवेणैवं मनसि कृतम् । यदि मया 'रावणवृत्तान्तो मया ज्ञातः' इत्युक्तः स्यात् तदाऽतिव्यसनी रामोऽयं सीतान्वे पणे प्रथमं मां प्रवर्तयेत्, तच्चायुक्तम्, वानराणां वालिवशंवदत्वेनास्मदधीनत्वाभावात् । कथंचित् केषांचिद्वशीकरणेपि रावणेन कृतसख्यो वाली चास्मन्मनोरथानुरूपां प्रवृत्तिं कथं सहेत, तथा चोभयकार्यभङ्गः इत्यज्ञानमभिनीतवान् सुमतिः सुग्रीवः । न चैवं सति वानरप्रेषणकालिकसुग्रीववच नेन कथमिव रामो नाशङ्कतेति वाच्यम्, तारोक्तलक्ष्मणवचनश्रवणेन रामस्य न शङ्कावकाशः । पूर्वमयं न जानाति पश्चात्तारावचनैर्ज्ञातवानिति राम स्यापि प्रतिपत्तिर्भवेत् । एवं ह्याह लक्ष्मणं प्रति तारा-“ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः । अयुतानि च पत्रिंशत्सहस्राणि शतानि च ॥ अहत्वा तांश्च दुर्धपीन् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ " इत्यादि । किञ्च कथं वा लोकालोकपर्यन्तं पर्यटत स्तदपरिज्ञानम् ? अत एव हि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणकथनप्रसङ्गे वक्तव्यमपि रावणजयवृत्तान्तं नोक्तवान् । नन्वेवमिदानीं परमार्थतो न ४ विजानाति सुग्रीवः पश्चात्तारया ज्ञातवानिति किन्न विकल्प्यत इति चेन्न तारादर्शनात् प्रभृति कामपरवशेन सुग्रीवेण तारया सह रामकार्यपर्यालोचना प्रसक्तेः। यदि च सुग्रीवः सर्वथा न जानीयात् तदा सीताक्रोशादिना स्फुटमवगतां दिशं वदेदेव । यच्च कैश्विदुक्तम्-निलयं न जानामीत्यस्य इदानीं तद सीतान्वेषणार्थ हनुमदादिवानरमेषणसमये “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ " इति वचनेन रावणावासस्य सुग्रीवावगतत्वप्रतीतेरेवं व्याख्यातम् ॥ टी० - सामर्थ्य शारीरं वलम् । दौष्कुलेयस्य " दुष्कुलाइढकू " इति ढक् प्रत्ययः ॥ २ ॥ ३२ ॥
For Private And Personal Use Only