SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.कां. URY वस्थानदेशं न जानामीत्यर्थ इति । तन्नः सर्वात्मना रावणवृत्तान्तमपरिज्ञाय कियदपि तत्स्वरूपज्ञानं भवत्विति तात्पर्यण "कवा वसति तदक्षः" इति पृष्ट । वन्तं प्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानी तवस्थानभूमि न जानामीत्युत्तरस्य च्छलत्वापत्तेः । तद्वासमात्रज्ञाने तद्भञ्जने स स्वयमेवेहागमिष्यतीति हि रामाभिप्रायः। किञ्च इदानी निलयापरिज्ञानेपि सामर्थ्यपराक्रमौ वा वक्तव्यौ स्याताम् । इतरदिशः प्रति वानराणां प्रेषणम्, तान् प्रति-"रावणः सह वैदेह्या मागितव्यस्ततस्ततः।” इति वचनं च बहुकालविलम्बेन यत्र कुत्रापि सीतां स्थापयेत्तिष्ठेदेति सङ्गच्छते । एतेनेदमपि निरस्तम् । सर्वथा सर्व रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ॥४॥ अलं वैक्लव्य मालम्ब्य धैर्यमात्मगतं स्मर । त्वद्विधानामसदृशमीदृशं विद्धि लाघवम् ॥ ५॥ मयापि व्यसनं प्राप्त भार्याहरणजं महत् । न चाहमेवं शोचामि नच धैर्य परित्यजे ॥६॥ नाहं तामनुशोचामि प्राकृतो वानरोपि सन् । महात्माच विनीतश्च किं पुनर्धतिमान भवान् ॥७॥ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादा सत्त्वयुक्तानां धृति नोत्स्रष्टुमर्हसि ॥ ८॥ व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके । विमृशन् वै स्वया बुद्धया धृतिमान्नाव सीदति ॥ ९॥ बालिशस्तु नरो नित्यं वैक्लव्यं योनुवर्तते । स मज्जत्यवशः शोके भाराकान्तेव नौजले ॥१०॥ प्रकारेणापि तन्निलयं न जानामीति विशिष्टाभावार्थः । तथा चाग्रे केनचित्प्रकारेण तनिलयज्ञानाविरोध इति । वानरान् प्रति यावन्मात्रमुच्यते तावदादा विपि वक्तव्यत्वात् । यदपि केनचिदुनीतम्-संवत्सरपर्यन्तं सीतादुःखकरणाभावे रावणकृतशिवपूजाफलं न भवेदिति देवप्रतिबन्धवशात्तदानीं सुग्रीवस्या ज्ञानमिति । तत्तुच्छम्; दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात् । सम्यक्च परदारधर्षणं शिवपूजाफलमिति । तस्माद्यथोक्त एवार्थों ग्राह्यः ॥२॥३॥ सगणं सपरिवारम् । रावणं हत्वा भवन्तं परितोष्य आत्मपौरुषं तथा कर्तास्मि । यथा प्रीतो भविष्यसीति सम्बन्धः॥४॥ वैक्लव्यं दैन्यम् । ॥५॥ परित्यजे परित्यजामि ॥६॥प्राकृतः हीनः । विनीतः वृद्धः सुशिक्षितः॥७॥सत्त्वयुक्तानां व्यवसायवताम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री ।। तु जन्तुषु" इत्यमरः । मर्यादा व्यवस्थारूपां धृतिम् ॥ ८॥ व्यसन इति । अर्थकृच्छ्रे धननाशे ॥९॥१०॥ सगण सपरिवारम् ॥ - ॥ तां रुमाम् ॥ ७॥ ८॥ व्यसने अर्थक) कार्यसकटे ॥ ९॥ १० ॥ ॥२४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy