SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. टी.कि.का. ॥२३॥ स०७ अत्र शादलशब्देन हरिततृणान्युच्यन्ते । स्वार्थे वलजार्षः। तद्वत्या भूमौ । मृदुस्थले उत्सृष्टत्वात् तथारूपम् अविकलरूपं दृश्यते ॥२१॥ रामानु०-तथारूपम पूर्व यथारूप तथारूपम् । अक्षतमिति यावत् ॥ २१ ॥ कं देशं का दिशं प्रति । ह्रियन्ती ह्रियमाणेत्यर्थः। प्राणेः प्राणेभ्यः ॥ २२-२४ ॥ अपावृतम् 7 शालिन्यां ध्रुव भूम्यां सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥२१॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपुर त्वभिजानामि नित्यं पादाभिवन्द नात् ॥ २२॥ ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ॥ २३ ॥ ब्रूहि सुग्रीव के देशं ह्रियन्ती लक्षिता त्वया । रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥२४॥ व वा वसति तद्रक्षो महद्यसनदं मम । यनिमित्तमहं सर्वा नाशयिष्यामि राक्षसान् ॥ २५ ॥ हरता मैथिली येन मां च रोषयता भृशम् । आत्मनो जीवितान्ताय मृत्युद्वार मपावृतम् ॥२६॥ मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा। कथय मम रिपुं त्वमद्य वैप्लवगपते यमसादनं नयामि ॥२७॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः॥६॥ __ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत् प्राञ्जलिर्वाक्यं सवाष्पं बाष्पगद्गदः ॥१॥ न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्य विक्रम वापि दौष्कुलेयस्य वा कुलम् ॥२॥ उद्घाटितम् । येन तत्व वसतीत्यन्वयः ॥ २५ ॥२६॥ ममेति । विषमवृत्तम् ॥ २७ ॥ रामानु"-अस्मिन् सर्गान्ते मम दयिततरेत्पर्य श्लोको बहुषु कोशेष न दृश्यते ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्ठः सर्गः ॥६॥ एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रासङ्गिकसुकृतदर्शनेन तल्लाभत्वरा भगवत उच्यते सप्तमे-एवमुक्त इत्यादि । बाष्पगद्गदः रामबाष्प दर्शनेन स्वयमपि बाष्पगद्गदः। “एकं दुःखं सुखं च नौ" इत्यस्य प्रथमोदाहरणमिदम् ॥ १॥ दौष्कुलेयस्य दुष्कुले भवो दौष्कुलेयः। “दुष्कुलाहा" तथारूपं पूर्व यथारूपम् अक्षतरूपमित्यर्थः । मृदुप्रदेशपातादिति भावः ।।२१-२३॥ के देशम् । अत्यन्तसंयोगे द्वितीया । कस्मिन् देशे लक्षितेत्यर्थः ॥ २४-१७॥ इति श्रीमहेश्वरतीर्थविर श्रीरामा यणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां षष्ठः सर्गः॥६॥१॥ न जान इति । सर्वथा न जाने सर्वप्रकारेण न जाने, किश्चिजानामीत्यर्थः । उत्तरत्र V ॥२३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy