________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अनुमानात् योग्यतया । या दृष्टा सा मैथिली, न संशयः। अनुमानात्तु जानामीत्यस्यैव विवरणमिदम् ॥ ९॥ रामानु०-मैथिलीत्यत्र इतिकरणं द्रष्टव्यम् ॥९॥ ॥१०॥ आत्मनेति । आत्मना मया पञ्चमम् ॥ ११॥ प्रत्यभिज्ञातुं स्मर्तुम् ॥ १२॥ रामानु०-किमर्थं पविलम्बस इति पाठः ॥ १३ ॥१४॥ उत्तरीय त्यज शोकं महाबाहो तो कान्तामानयामि ते । अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ९॥ द्वियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा। कोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् । स्फुरन्ती रावणस्याङ्के पन्नगेन्द्र वधूर्यथा॥१०॥आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् । उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥११॥ तान्यस्माभिर्गृहीतानि निहितानि च राधव । आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ १२ ॥ तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्रं किमर्थ प्रविलम्बसे ॥१३॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहना गुहाम् । प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ १४॥ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च । इदं पश्येति रामाय दर्शयामास वानरः ॥ १५॥ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च । अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः॥ १६॥ सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रियेति रुदन धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ १७॥ हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् । निशश्वास भृशं सो बिलस्थ इव रोषितः ॥ १८॥ अविच्छिन्नाश्रुवेगस्तु सौमित्रि वीक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामः समुपचक्रमे ॥ १९॥ पश्य लक्ष्मण वैदेह्या
सन्त्यक्तं ह्रियमाणया । उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ॥२०॥ माभरणानि च । उत्तरीयबद्धानीत्यर्थः ॥ १५-१७ ॥ अलङ्कारमिति जात्येकवचनम् । रोषितः सातरोपः ॥ १८ ॥ परिदेवयितुं प्रलपितुम् । दीनमिति क्रियाविशेषणम् ॥ १९॥ पश्यति । शरीरात्, अपनीयेति शेषः॥२०॥ टी-अनुमानादिति । रावणेन हता काचिन्मया दृष्टा ऋश्यमूकस्थितेन, सा सीता भवितुमर्हतीत्यनुमानप्रकारः ॥९॥१०॥ राणहृता सीतेत्यस्मिन्न ज्ञापकान्तरमस्तीत्याह-आत्मनेति ॥ ११॥ निहितानि निगूढानि, विधिवदक्षितानीत्यर्थः ॥ १२ ॥ १३ ॥ गहना दुष्प्रवेशाम् ॥ १४-१७ ॥ रोधितः सनातरोषः ॥ १८-२०॥
For Private And Personal Use Only