________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
न द्वेष्टेति । सर्वेषु भूतेषु मध्ये पितामह इव श्रेष्ठ इत्यर्थः॥७॥८॥ पुत्राणां पुत्राणां मध्ये ॥९॥ राज्यादित्यादि । भार्ययेति । ऐश्वर्यभ्रंशदशायामप्यनु वर्तनद्योतनाय दिनक्षय इत्युक्तम् ॥१०॥११॥ रामानु-भार्ययेति । दिवाकरप्रभाषा दिवाकरानुगमनस्प सायकाल एवं सम्यक्प्रतीयमानत्वादिनक्षयपदोपादानम् ॥११॥ अहमिति । भवानस्य क इत्याकाङ्क्षायामाह-अस्यावरो भ्राता एतदभिप्रायेण भ्रातास्मि । अहं तु गुणैर्दास्यमुपागतः गुणवशीकृत हृदयः सन् तस्य
न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन । स च सर्वेषु भूतेषु पितामह इवापरः। अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्त दक्षिणैः ॥७॥ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः । शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ॥८॥ वीरो दशरथस्यायं पुत्राणां गुणवत्तमः । राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा॥९॥राज्याभ्रष्टो वने वस्तुं मया साधमिहागतः। भार्यया च महातेजाः सीतयाऽनुगतो वशी ॥ १० ॥ दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥११॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२॥ सुखार्हस्य
महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ १३ ॥ दासोऽस्मि । यद्यपि परवानस्मीत्यादौ स्वरूपप्रयुक्तदास्यमुक्तम् । तथापि योग्यताप्रकर्षात् गुणोत्तम्भितं तद्दास्पमिति तदविरोधो द्रष्टव्यः । उपे । त्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कय प्राप्त इत्युच्यते । इदमपि कैकय तन्मुखोल्लासार्थम्, न तु मदर्थमित्याह-कृतज्ञस्य बहुज्ञ स्येति । अल्पमिति कृतं बहुतया जानत इत्यर्थः । इदमपि कैकय सहजमित्याशयेनाह-नामा लक्ष्मणो नामति । स्वनामतः कैर्यलक्ष्मीसम्पन्न इति । प्रसिद्धः ॥ १२ ॥ सुखेत्यादि श्लोकद्वयमेकान्वयम् । यद्वा प्रथमश्लोकस्य पूर्वेणान्वयः। सहजत्वमुपपादयति-सुखेति । महार्हस्य ऐश्वर्यसम्पन्नस्य । वन वासाश्रितस्य दुःखितस्येत्यर्थः । तथा च समृद्धिदशायामसमृद्धिदशायां च दास्योक्त्या सहजत्वमुपपादितम् । सहजमेव कैय॑म् । गुणास्तु तद्वर्धका इति भावः ॥ १३॥ तनि-अस्यावरो भाता। अहं तु दास्यं गतः । सर्वदेशसर्वकालादिषु अविश्लेषण कैङ्कर्यकारित्वं द्योतयितुमुपपदम् । सहजसिद्धदास्यव्रत) टीका-आप्तदक्षिणैः पर्याप्तदक्षिणैः ॥ ७-१० ॥ सीतायाः प्रभासाम्य सर्वावस्थास्वपि नित्यसन्निहितत्वात् ॥ ११-१३ ॥
For Private And Personal Use Only