SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ዘረዘ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir स० ४ अथाचार्यमुखेन चेतनलाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणम् । तद्वचः श्रुत्वा । कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् टी. कि. कां. सुग्रीवं मनसा गतः । ' तमेव चावां मार्गाव' इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ॥ १ ॥ मनसा गत इत्येतद्दर्शयति-भव्य इति । यद्यस्माद्यं कृत्यवान् प्राप्तः तस्मात् । महात्मनः महाभाग्यस्य । तस्य सुग्रीवस्य । राज्यागमः भव्यः भावी । एतत् कृत्यं राज्यागमनरूपकार्यम् । उपागतं समीपे ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ १ ॥ भव्यो राज्यागम स्तस्य सुग्रीवस्य महात्मनः । यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥ ततः परमसंहृष्टो हनुमान प्लवग र्षभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥ किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् । आगतः सानुजो दुर्गे नानाव्यालमृगायुतम् ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥ राजा दशरथो नाम द्युतिमान् धर्मवत्सलः । चातुर्वर्ण्य स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ ६ ॥ आगतम् । निष्पन्नप्रायमित्यर्थः ॥ २ ॥ अस्मिन् श्लोके प्लवगर्षभ इत्यत्र गकारो गायत्र्याः दशमाक्षरम् । नवसहस्रश्लोका गताः ॥ ३ ॥ किमर्थमिति । पम्पाकाननेन पम्पोपवनेन मण्डितं वनं दण्डकारण्यम् । दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः । अनुजत्वमाकारसाम्यात्तमभ्यभाषेति नियो जनाचेति ॥४॥ तस्येति । महात्मत्वेन दशरथात्मजत्वेन चाचचक्ष इत्यर्थः ॥ ५ ॥ रामानु० तस्येति । दशरथात्मजं महात्मानमित्येतद्वयमपि विधेयविशेषणम् ॥५॥६॥ तत इति । हनुमान् मधुरसम्भाषं मधुर भाषणं तद्वचः श्रुत्वा कृत्यवानिति सुग्रीवेण कार्यवान् राम इति हृष्टः सुग्रीवं मनसा गतश्च । रामस्य कृत्यवत्त्वं तु " तमेव काङ्क्षमाणस्य । तमेव चावां मार्गावः " इत्येताभ्यां वाक्याभ्यामवगतम् ॥ १ ॥ भव्य इति । अयं रामः कृत्यवान् सुग्रीवेण कार्यवान प्राप्तो यद्यस्मात् तस्मात्तस्य | सुग्रीवस्य राज्यागमो भव्यः भाषी । एतदिति षष्ठी । एतस्य रामस्येत्यर्थः । कृत्यं च उपागतम् उप समीपे आगतम्, निष्पन्नप्रायमिति यावद। टी०-पद्वा एतस्य सुग्रीवस्य राज्यप्राप्तिरूपं कृत्यं सिद्धमेवेत्यर्थः ॥ २ ॥ ग इति गायत्र्या दशमाक्षरं ततः परमिति लोकस्य चतुर्दशाक्षरेण 'ग' इत्यनेन सङ्गृह्णाति ॥ ३ ॥ टी० - सामान्याकारणा वगतकार्यवध्वं विशेषतः पृच्छति किमर्थमित्यादिना ॥ ४ ॥ ९ ॥ विश्वासजननार्थं रामस्य कुलशीलादिमादितः कथयति-राजेत्यादिना ॥ ६ ॥ स० [पम्पाकाननमण्डितम् पम्पाया यानि (कानि) उदकानि तेषामननेन चेष्टया मण्डितमिति वा ॥ ४ ॥ For Private And Personal Use Only ॥१८॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy