________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
ररेरपीति । उद्यतासेः छेत्तुमुद्धतासेरित्यतिक्रूरतोक्तिः । अनेन हनुमदादिभिः रामादीनां संस्कृतभाषयैव व्यवहार इति गम्यते ॥ ३४ ॥ एवं हनुमतो वाक्चातुरीमभिनन्द्य बुद्धिचातुरीमभिनन्दति-एवंविध इति । एवंविधः एवंप्रष्टा । अस्मत्प्रशंसाव्याजेन कुलगोत्रनामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः ॥ ३५ ॥ उक्तमर्थमन्वयमुखेनापि दर्शयति-एवमिति । दूतवाक्यप्रचोदिताः। दूतवाक्यमूला एव सिद्धयन्ति, न प्रधानापेक्षा
एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥ ३५॥ एवं गुण गणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिद्धयन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥३६॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ ३७॥ विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तमेव चावा मार्गावः सुग्रीवं प्लवगेश्वरम् ॥ ३८॥ यथा ब्रवीषि हनुमन सुग्रीववचनादिह। तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ ३९ ॥ तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४० ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः * ॥३॥ इति भावः ॥ ३६॥ वाक्यज्ञो वाक्यज्ञमित्युक्त्या यथारीत्या हनुमतोक्तं तथैव सौमित्रिणापीत्युच्यते ॥३७॥ विदिता इति । विद्वन्निति हुनुमत्सम्बो । धनम् ॥ ३८॥ यथेति । अनेन ये तावत् आचार्याभिमाननिष्ठाः तेषां कार्य तद्वचनादेव करिष्यामीति भगवतः प्रतिज्ञा सूचिता ॥३९॥ तदिति । जयोपपत्तौ वालिजयोपपत्तिनिमित्तम् ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीरा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने तृतीयः सर्गः ॥३॥ टी. एत्रमिति । गतयो मार्गाः ॥ ३१-३७ ॥ विदिताः कबन्धमुखेनेति भावः ॥ ३८ ॥ ३९ ॥ जयोपपत्तौ सुग्रीवस्य जयसिद्धौ ॥ ४० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यार्या किष्किन्धाकाण्डव्याख्यायां तृतीयः सर्गः ॥३॥ • सर्गश्रवणफलश्रुतिः । स्थान्दे-" सुप्रीमो मारुति सत्र प्रेषयामास राघवम् । मार तिप्रेषण श्रुत्वा सद्गुरु लमते नरः । राममारुतिसंवादश्रवणाद्राज्यमाप्नुयात् ॥" इति ॥
For Private And Personal Use Only