SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. टी.कि.का. स०३ पाठकाधमाः। न शिरः कम्पयेद्द्वात्रं ध्रुवौ चाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वणे प्रयोजयेत् ॥” इति ॥३१॥ एवमुच्चारणशक्तिरुक्ता । अथ वाक्यप्रयोगचातुरी दर्शयति-अविस्तरमिति । अविस्तरं शब्दप्रपञ्चरहितम् । “प्रथने वावशब्दे ” इति वभो निषेधात् “ऋदोरप्" इत्यप्प्रत्ययः। असन्दिग्धं पदवर्णसन्देहरहितम् । अविलम्बितं विलम्बितत्वे स्वाशक्तिः प्रकटिता स्यात् । अद्भुतं द्रुतोच्चारणे परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रम् ।। कण्ठगं मध्यमम्, तादृशं वाक्यं मध्यमे स्वरे वर्तते । न मन्द्रं न मध्यमं न द्रुतं न विलम्बितं चेत्यर्थः । इदं चतुर्दशदोषाभावानामुपलक्षणम् । तथाह शिक्षा अविस्तरमसन्दिग्धमविलम्बितमद्वतम् । उरःस्थं कण्ठगं वाक्य वर्तते मध्यमे स्वरे ॥ ३२ ॥ संस्कारक्रमसम्पन्नामतामविलम्बिताम् । उच्चारयति कल्याणी वाचं हृदयहारिणीम् ॥ ३३॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ३४ ॥ कारः-"शङ्कितं भीतमुदघृष्टमव्यक्तमनुनासिकम् । काकस्वरं शीर्षगतं तथा स्थानविवर्जितम् । विस्वरं विरसं चैव विश्लिष्टं विषमान्वितम् । व्याकुलं तालुभिन्नं च पाठदोषाश्चतुर्दश।" इति । अन्यत्राप्युक्तम्-"उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं अस्तपदाक्षरं च वदेन । दीनं नतु सानुनास्यम् ॥” इति ॥ ३२॥ एवं पाठदोषा उक्ताः । अथ तद्गुणानाह-संस्कारेति । संस्कारो व्याकरणकृता शब्दशुद्धिः, व्यक्तपदत्वमिति यावत् । क्रमः वर्णानां क्रमिकता व्यक्ताक्षरत्वमिति यावत् । कल्याणीम् इतरगुणवतीम् । हृदयहारिणी मधुराम् । वाणीम् उच्चारयति उच्चरति । तदि दमुक्तं शिक्षायाम्-"माधुर्यमक्षरव्यक्तिः पदच्छेदस्तथाऽत्वरा । धैर्य लयसमत्वं च षडेते पाठका गुणाः ॥” इति ॥ ३३ ॥ माधुर्यपरकाष्ठामाहअनयेति । चित्रया आश्चर्यावहया। त्रिस्थानानि उरकण्ठशिरांसि । व्यज्यन्ते एषु वर्णा इति व्यञ्जनानि । त्रिस्थानरूपव्यञ्जनेषु तिष्ठतीति तथा। तथात्वं च न तदुत्पन्नत्वम् । शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति ह्युदाहृतम् । किंतु उदात्तानुदात्तस्वरितवत्त्वम् । तथोक्तं शिक्षायाम्--"अनु । दात्तो हृदि ज्ञेयो मूर्युदात्त उदाहतः । स्वरितः कण्ठमूलीयः पार्थास्ये प्रचयस्य तु ॥” इति । नाराध्यते न तोष्यते । कस्येत्यस्य विवरणम् उद्यतासे अविस्तरं विस्तररहितम् । मध्यमे स्वरे, नोच्चैर्नच नीचेः ॥ ३२ ॥ संस्कारक्रमसम्पन्ना व्युत्पत्तिसामग्रीसम्पन्नामित्यर्थः। अद्भुता दुतोच्चारणरहितामित्यर्थः ॥ ३३ ॥ अनया चित्रया विस्मयोत्पादकया । त्रिस्थानव्यानस्थया त्रिस्थानेषु उरकण्ठशिरस्तु व्यञ्जनस्थया व्यक्ततया स्थितयेत्यर्थः ॥ ३४ ॥ ॥१७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy