________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.कां. स..
॥१६॥
महात्मना महाबुद्धिना ॥२२॥ वित्तम् । विदेोटि मध्यमपुरुषद्विवचनम् ॥२३॥ तहि कथं भिक्षुरसीत्यवाह-भिक्ष्विति ॥२४॥ नोवाच । तद्वचनश्रवणे च्छयेति भावः ॥२५॥ एतदिति, हनुमन्तं स्तोतुं लक्ष्मणं प्रत्युक्तिः ॥२६॥ सचिव इति । उपागतः । स एव सचिवद्वारति शेषः॥२७॥ स्नेहयुक्तं मयि
प्राप्तोऽहं प्रेपितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनूमान्नाम वानरः ॥ २२ ॥ युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ २३ ॥ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रिय काम्यया। ऋश्यमूकादिह प्राप्त कामगं कामरूपिणम् ॥ २४ ॥ एवमुक्त्वा तु हनुमास्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किश्चन ॥ २५॥ एतच्छुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥ २६ ॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव कांक्षमाणस्य ममान्तिकमुपागतः॥ २७ ॥ तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम
॥ २८॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं प्रभाषितुम् ॥ २९॥ सुग्रीवे च प्रीत्रियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । अडागमपरस्मैपदे आर्षे । मन्त्रिणा स्वामिनो वचनं न नीतिरिति सौमित्रि नियोजयति ॥२८॥ अथ चेतनोज्जीवनस्याचार्यमुखमन्तरेणासम्भवादाचार्यलाभं दर्शयति-नानृग्वेदेत्यादिना । " आचार्यों वेदसम्पन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो. मन्त्रभक्तश्च सदा मन्त्रार्थदः शुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः। एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ॥” इत्युक्तमाचार्यलक्षणं दर्शयति । ऋग्वेदेषु विनीतस्य शिक्षितस्य विनयधारणवेदनानि सर्वत्र वेदेषु योज्यानि । यद्वा प्रतिवर्ण स्वरभूयस्त्वेन मनोनियमनेन सावधानोच्चार्यत्वादृग्वेद । इत्यादिना। टी-तूष्णीम्भूतौ रामलक्ष्मणी भाषयितुं स्वस्वामिनामधेय कथयति-सुप्रीव इत्यादिना । विनिकृतः तिरस्कृतः ॥२१-२५॥ प्रष्टवदनः हनुमचनस्य विवक्षितवाक्यानुकूलावादिति भावः॥२६-२८॥ नानृग्वेदेति । अनुग्वेदविनीतस्य अनृग्वेदेन ऋग्वेदादन्येन विनीतस्य शिक्षितस्य एवं प्रभाषितुं न शक्यम् । अयजुर्वेदधारिणः यजुर्वेदधारणरहितस्यैवं प्रभाषितुं न शक्यम् । असामवेदविदुषः असामवेदज्ञस्यैवं भाषितुं न शक्यमिति सम्बन्धः । अयमर्थः-प्रतिवर्ण स्वरभूयस्त्वेन सावधानेनोचार्यमाणत्वाहग्वेदविनीतस्ये न्युक्तिः । एकैकानुवाके अनुवाकान्तरवाक्यस्यासाङ्कर्येण धारणस्थ दुष्करां द्योतयितुम् क्षयजुर्वेदधारिण इत्युक्तम् । ऊहरहस्यादिगर्भितगानविशेषाणां दुर्जेयता
॥१६॥
For Private And Personal Use Only