SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पराणां समस्तविरोधिनिवर्तनक्षमा इत्यर्थः । सर्वभूषणभूषार्हाः 'आभरणस्याभरणम्' इत्युक्तरीत्या भूषणान्यपि भूपयितुमर्हाः। किमर्थं न विभूषिताः, इमान भूषणैरलंकृत्य आभरणाभरणत्वं किमिति न प्रकाशितमित्यर्थः । यद्वा दृष्टिदोषपरिहाराय एतादृशबाहुसौन्दर्यमाच्छादयितव्यम्, तकिमर्थ नाच्छादितमिति भावः । यद्वा आभरणच्छन्नसौन्दर्यमेवालमस्मदशीकरणाय । अधिकं निरावरणसौन्दर्यप्रदर्शनमिति भावः । यद्वा राजकुमाराणां क्षण उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् । ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ १६॥ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने । प्रकाशेते यथेन्द्रस्य वचे हेमविभूषिते ॥ १७॥ सम्पूर्णा निशितैर्वाणैस्तुणाश्च शुभ दर्शनाः । जीवितान्तकरैोरैः श्वसद्भिरिव पन्नगैः ॥ १८॥ महाप्रमाणौ विस्तीर्णी तप्तहाटकभूषितौ। खडावेतौ विराजेते निर्मुक्ताविव पन्नगौ ॥ १९॥ एवं मां परिभाषन्तं कस्मादै नाभिभाषथः॥२०॥सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगभ्रमति दुःखितः ॥२१॥ मात्रं ताम्बूलाभावे म्लानतावत्क्षणमात्रविरहेपि स्थातुमनहीं भूषाः किमर्थं विश्लेपिता इति भावः। यद्वा एवं भूषणविरहः कस्य वा शबोर्मूलघातायेति । भावः । अनेन अप्रतिहतसङ्कल्पत्वेपि नित्यसूरीन् विहाय चतुर्षाऽवतरणे को हेतुरित्युक्तम् ॥ १५॥तनि०-सर्वभूषणभूषार्हाः सर्वेषां भूषणानाम् अङ्गार केयूरादीनां भूषायाम् अलङ्करणे अर्हाः। एतेन बाहूनां सर्वभूषणातीतकान्तिमत्त्वमुक्तम् । तमेवाथै विशदयति-आजानुदीर्घबाहुत्वमायतत्वम् । वृत्तानुपूर्वत्वं सुवृत्तत्वम् । पीवरदृढसंस्थानत्वं परिघोपमत्वम् । किमर्थं न विभूपिताः भूषणधारणेन एतेषां भूषणाधिककान्तिमत्त्वं किमर्थं न प्रकाशितमित्यभिप्रायः ॥ १५॥ उभाविति । विन्ध्यमेरुविभूषितामिति दृष्टान्तार्थः-यथा विन्ध्यमेरू भूरक्षको तथा भवन्तावपीति ॥ १६॥ चित्रे लोके एतादृशधनुषोरदर्शनादद्भतावहे । बजे इत्य भूतोपमा ॥ १७॥ तूणा इति बहुवचनम् एकैकस्य पार्श्वद्रयेपि तूणीरद्वयसत्त्वात् ॥ १८॥ महाप्रमाणाविति दीर्घत्वम् । विस्तीर्णाविति विशालता। तप्तहाटकं द्रुतकनकम् । निर्मुक्तो निर्मुक्तत्वचौ ॥१९॥ परिभाषन्तं पुनः पुनर्भाषमाणम् । नाभिभाषथः नाभिभाषेथे । व्यत्यय आपः ॥२०॥ एवं स्ववाक्सौष्ठवेन तूष्णीभूतौ दृष्ट्वा स्वकार्यमावेदयति-सुग्रीव इत्यादिना । विनिकृतः वञ्चितः ॥२१॥ VIE पन्द्रस्य बजे इति एकत्येन प्रसिद्धस्याप्युपमानत्वेनोपात्तस्य वजायुधस्थानकवकल्पनमुषमेषानेकत्व निबन्धनमित्य विरुद्धम॥१७-२०॥ कस्य त्वं कस्त्वं किमर्थमागत इत्वाकाकायामाह-वमीव For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy