________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥१३॥
कार्यम् । अबुद्धिम् अबुद्धयादिकम् ॥ १८॥ ततः शुभतरं तद्वाक्यादत्यन्तशुभम् ॥ १९॥ दीर्घा बाहवो ययोस्तौ दीर्घबाहू, इत्येवं सर्वत्र समासः ॥२०॥ वालिप्रणिहिती नाहं वाली समागत इति बिभेमि, किन्तु तत्प्रेषिताविति मत्वेति भावः। एतादृशतदीयपुरुषस्य का प्रसक्तिस्तत्राह-राजान। इति । अत्र राजविषये ॥२१॥ छनचारिणोऽरयः मनुष्येण शत्रुमता ज्ञेयाः । कुत इत्यत्राह विश्वस्तानामिति । विश्वस्तानां शत्रूणां रन्ध्रेषु प्रमादेषु सत्सु । सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ १९॥ दीर्घबाहू विशालाक्षी शरचापासिधारिणौ। कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥२०॥ वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ २१ ॥ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः । विश्वस्ताना मविश्वस्तारन्ध्रेषु प्रहरन्ति हि ॥ २२ ॥ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः । भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैनरैः॥ २३ ॥ तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम । इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥२४॥
लक्षयस्व तयोर्भावं प्रहष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥२५॥ स्वयमविश्वस्ताः सन्तः प्रहरन्ति हि ॥ २२ ॥ कृत्येषु कर्तव्यकार्येषु । वाली मेधावी दूरदर्शी । स्वभावश्चायं राज्ञामित्याह राजान इति । राजानः बहुदर्शनाः बहूपायज्ञाः । परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः नरैः ज्ञेयाः ॥ २३ ॥ प्राकृतेन प्राकृतवेषेण । इङ्गितानां भावसूचककायिक Mव्यापाराणाम् । प्रकारैरखान्तरभेदैः। रूपेण सौम्यासौम्यलक्षणेन । व्याभाषणेन अन्योन्यसम्भाषणेन च तो ज्ञेयौ ॥ २४ ॥ यदि प्रहृष्टमनसौ
अभिप्रायसूचको व्यापारः ॥ १८ ॥ १९ ॥ टी०-दीति । सुरसुतः सुरराजः, तदुपमौ । “ पार्थिव तनये सुतः" इत्यमरः ॥ २० ॥ वालिप्रणिहिताविति एतौ शङ्के। कुतः? "राजानो बहुमित्राः 'राजानी वेषान्तरधारिभिमित्रेः शत्रून घातयिष्यन्तीति भावः ॥ २१ ॥ अरयो विज्ञेयाः शोधनीयाः । कुतः १ अविश्वस्ताः अविश्वसनीयाः। अरयो विश्वस्ताना छिद्रेषु प्रहरन्ति, विश्वस्ताना संहारावकाशं दृष्ट्वा तान प्रहरन्तीत्यर्थः ॥ टी०-तहिं कि कर्तव्यमित्यत आह-अरयश्चेति । विश्वस्तानाम अमायाविनामिति कर्मणि ॥१३॥ षष्टी ॥ २२ ॥ बहुदर्शनाः अनेकोपायज्ञाः । प्राकृतैः दीनवेषधारिभिः ॥ २३ ॥ तावित्यादिश्लोकचतुष्टयमेकं वाक्यम् । प्राकृतेनैव प्राकृतवेषधारिणैव । इङ्गिताना भावसूचकदेहव्यापाराणाम् । प्रकारः भेदैः । रूपव्याभावणेन च रूपेण सौम्यासौम्यरूपेण व्याभाषणेन अन्योन्यसम्भाषणेन च तयोर्भावं लक्षयस्व । यदि प्रदुष्टमनसौल
For Private And Personal Use Only