________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
यदि शुद्धभावो । तदा प्रशंसाभिः तदनुकूलेङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखम् अनुकूलं यथा भवति तथा। स्थित्वा स्थापयित्वा ।। धनुर्धरी धनुर्धरतया अत्र वने प्रवेशस्य प्रयोजनं पृच्छ ॥ २५ ॥२६॥ शुद्धेति । यद्येतो शुद्धात्मानौ तदा पुनरपि जानीहि । किं तेनेत्यवाही व्याभाषितैरिति । वाकारश्वार्थः । अदुष्टतेति च्छेदः ॥ २७ ॥ रामानु०-तावित्यादि । रूपव्याभाषणेन च तयोर्भाव लक्षयस्य । यादि प्रदुष्टमनसौ प्रशंसाभिरिङ्गितैश्च
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६ ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम । व्याभाषितैर्वा विज्ञेया स्याहुष्टादुष्टता तयोः ॥ २७ ॥ इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः । चकार गमने बुद्धि यत्र तौ रामलक्ष्मणौ ॥२८॥ तथेति संपूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य च । महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ २९ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः ॥२॥
वचो विज्ञाय हनुमान सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥१॥ पुनः पुनर्विश्वासयन् ममैवाभिमुखं यया भवति तथा । स्थित्वा स्थापयित्वा । अस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । धनुर्धरावेती शुद्धात्मानौ यदि तदानीमाप पूर्वोक्तप्रकारेण ती मदीयौ कृत्वा आगमनप्रयोजनं जानीहि ॥ २४-२७ ।। सुग्रीववचनं समीचीनममन्यतेत्याह-इतीति ॥२८॥ संपूज्य श्लापयित्वा । सुभीमस्य दुरासदस्येत्येताभ्यां सुनीतित्वं सूचितम् । महानुभावः वेषान्तरधारणसमर्थः । सः हनुमान् । यत्र रामो लक्ष्मणश्च तं देशं ययावित्यन्वयः ॥२९॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वितीयः सर्गः ॥२॥ प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषांचित् | स्वपरत्वे वर्तमाने केषांचिद्विषयान्तरपावण्यमवलोक्य दूयमानमानसस्य दयावृत्तिविशेषः प्रतिपादितः। द्वितीय चेतनस्य भगवदपराधदण्डभीतस्य तस्मिन्त्राभिमुख्यमुक्तम् । अथ तल्लाभहेत्वाचार्यकृत्यं दर्शयति तृतीये-वच इत्यादि ॥१॥ तहि प्रशंसादिभिरिङ्गितैश्च पुन:पुनः विश्वासयन् ममैवाभिमुखं यथा तथा स्थित्वा स्थापयित्वा । अस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । धनुर्धरौ शुद्धात्मानौ यदि तदानीमपि पूर्वोक्तप्रकारेण तो मदीयो कृत्वा आगमनप्रयोजनं जानीहि । इङ्गितादिभिर्भावपरिज्ञाने हेत्वन्तरमाह व्याभाषितेर्वा इति । व्याभाषितः ताभ्यो सह सम्भाषणः ॥२४-२८०टी०-उक्तसर्थ सगृहाति-तथेति ॥२९॥ इति श्रीमहेश्वर श्रीरामायणतत्वदीपिकाख्याया किष्किन्धाकाण्डव्याख्यायां द्वितीयः सर्गः ॥२॥१॥
For Private And Personal Use Only